SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ भिक्षुन्यायकर्णिका प्रस्तुतग्रन्थे सरलपद्धत्या तर्कशास्त्रस्य निरूपणं कृतमस्ति । विद्यार्थिनां तर्कशास्त्रविषये स्यात् सुगमः प्रवेश इति मुख्यं लक्ष्यमत्रास्ति सन्निहितम् । अस्मिन् लक्ष्ये साफल्यमनुभूयते प्रतिपदम् । आचार्यवर्यैस्तेरापन्थसंघस्योन्नयनाय महान् प्रयत्नः कृतः । अनेकेषां साधूनां साध्वीनां चानेकासां विद्याजीवनमभून्निर्मितम् । मम निर्माणे आदित एव योऽप्रयत्नात्मकः प्रयत्नः कृतः स खलु मम नैसर्गिकसौभाग्यसंचयः । vi प्रस्तुतग्रन्थो विद्यार्थिनां महान् उपयोगी वर्तते । अस्य संपादनं चिरकालापेक्षितमिदानीं जायते । अस्य संपादने प्रतिसंशोधनादिकार्ये मुनिगुलाबचन्द्रेण मम यथेष्टं योगः कृतः । अस्माकं संघस्य निसर्गोऽस्य यत् साधवः साध्व्यश्च भवन्ति कर्त्तव्यानुपालनप्रकृतलक्ष्याः । आचार्यवर्यस्य प्रसादोऽयं सौकर्येण सर्वोपयोगी भविष्यतीति साधुवादार्हास्ते । वल्लभ निकेतन, अणुव्रत ग्राम बंगलौर - १ २ सितम्बर, १९६९ Jain Education International For Private & Personal Use Only मुनिः नथमल: www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy