________________
१२०
भिक्षुन्यायकर्णिका
मनेकान्तः। स्यादवादश्च विभिन्नामपेक्षामवलम्ब्य वस्तुगतानामनेकेषां धर्माणां प्रतिपादनं करोति । अस्य वास्तविकी स्थिति: वस्तुनः सदसदात्मकभावमादायैव भवति। प्रत्येकं वस्तुनो भवति एकं स्वकीयमसाधारणं रूपं यद् स्वकीयद्रव्यक्षेत्रकालभावोपरि आधृतं भवति । प्रत्येकं वस्तु -स्वद्रव्यक्षेत्रकालभावै: अस्तित्वसम्पन्नं भवति। तदेव वस्तु परकीयद्रव्यक्षेत्रकालभावैर्नास्तित्वसम्पन्नं भवति । यदि स्वरूपचतुष्टयवत् पररूपचतुष्ट येनापि वस्तुनः सद्पत्वं स्वीकृतं स्यात् तदा स्वस्मिन् परस्मिन् च न कश्चन भेदः स्थास्यति । परिणामतः सर्वं वस्तु सर्वात्मकं भविष्यति । अनेनैव प्रकारेण पररूपचतुष्टयवत् स्वरूपचतुष्टयेनापि वस्तुनोऽसद्रूपत्वं यदि अभिमतं स्यात् तदा वस्तुनोऽभावात्मकत्वमेव स्यात् । अतो लोकप्रतीतिसिद्धव्यवस्था सम्पादयितुं प्रत्येकं वस्तुनः स्वरूपेण सत्वं पररूपेण चासत्वं स्वीकरणीयम्। स्याद्वादः इत्यस्मिन् पदे पदद्वयमस्ति । स्यात् इत्येकं पदं वाद इत्यपरं पदम्। तत्र स्यात् इति तिङन्तप्रतिरूपकम् अव्ययपदम् । अत्रास्यार्थोऽस्ति कथञ्चिदिति । वादपदस्य अर्थोऽस्ति कथनम्। यत्र स्यादस्ति घटः इत्युच्यते तत्र यदि अस्तिना घटस्य केवलमस्तित्वमेव प्रतिपादयितुं काम्यते तदा स्यात् पदं तनिवारयति । तत् तु कथयति यत् घटे केवलम् अस्तित्वमेव नास्ति अपितु परद्रव्यक्षेत्रकालभावदृष्ट्या तत्र नास्तित्वमप्यस्ति । अत्र अस्तित्वस्य स्यान्नाम अर्पणा, किन्तु अत्र नास्तित्वमपि वर्तत एवाप्रधानरूपेण । एवमेव नित्यत्वम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org