________________
चतुर्थी विभागः
8.
विधिनिषेधविकल्पैः सोऽनेकभङ्गः ।
अनेके भङ्गाः - विकल्पाः - वचनप्रकारा वा यस्य, स स्याद्वाद : ' अनेकभङ्गो भवति ।
११९
विधि और निषेध की कल्पना से स्याद्वाद के अनेक भंग होते हैं ।
स्याद्वाद के अनेक भंग - विकल्प या वचनप्रकार होते हैं, इसलिए उसे अनेकभंग वाला कहा जाता है । न्या. प्र. - विधि- अस्तित्वम् निषेधो नास्तित्वम् । अनयोर्विधिनिषेधयोर्भङ्गैः विकल्पैः अर्थात् वचनप्रकारैः स स्याद्वाद: अनेकभङ्गो भवति । अनेके भङ्गा विकल्पा वचनप्रकारा यस्य स स्याद्वादोऽनेकवचनप्रकारो भवति । अर्थात् अनेकवचन प्रकारैः स्याद्वादोऽनेकान्तवादं व्याख्याति ।
अयमत्र सारांश :- प्रत्येकं दर्शनं स्वकीयदृष्ट्या जगतो विवेचनं करोति । परिणामस्वरूपमत्रानेके वादाः प्रथितिं गताः सन्ति । तेषु अद्वैतवादः द्वैतवादः सत्कार्यवादप्रभृतयः सन्ति प्रसिद्धाः । अस्मिन् प्रसंगे जैनदर्शनम् अनेकान्तवादसरण्या करोति विवेचनं जगत: । अनेकान्त: सिद्धान्तोऽस्ति । स्याद्वादश्च तन्निरूपणपद्धतिरस्ति । एतद्दर्शनानुसारं प्रत्येकं वस्तु अनन्तधर्मात्मकं भवति । अनेके अन्ताः धर्माः यत्र सोऽनेकान्तः । एकस्मिन् वस्तुनि अनेकेषां विरोध्यविरोधिधर्माणामस्तित्वस्वीकरण1. कथञ्चिद्वादः, अपेक्षावाद इति नामान्तराणि । अभेदविवक्षया यौगपद्येन अखण्डवस्तुप्रतिपादकत्वाद् असौ सकलादेश: प्रमाणवाक्यञ्चापि कथ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org