________________
चतुर्थो विभागः
१२१
अनित्यत्वम्, एकत्वम्, अनेकत्वम्, सत्वम् असत्वम्, इत्येवं रूपेण परस्परं विरोधिनो धर्मा एकस्मिन्नेव वस्तुनि तिष्ठन्ति । तस्मादने कान्तवादानुसार मिदंशक्यते वक्तुं यद् अनेकान्तवादानुसारं प्रत्येकं वस्तु विरोधिधर्माणाम् अविरोधि अधिकरणं भवतीति। एकस्मिन्नेव वस्तुनि अपेक्षाबुद्धया परस्परं विरोधिनो धर्मा गुणप्रधानभावाभ्यां तिष्ठन्ति। यदा एकस्य धर्मस्य प्राधान्यं विवक्ष्यते तदाऽन्ये धर्मास्तत्र गौणरूपेण (अप्राधान्येन) तिष्ठन्ति। अष्टमसूत्रे कथितं यत् विधिनिषेधैर्वचनप्रकारैः स्याद्वादः अनेकभङ्गो भवति। तानि च विधिनिषेधवाक्यानि कथं कीदृशानि च भवन्तीति प्रतिपादयितुं सूत्रयति
9.
यथा स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेवेति। स्यात् शब्दोऽनेकान्तवाचकः । स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वत्रास्तित्वम्, परद्रव्यक्षेत्राद्यपेक्षया नास्तित्वम्, युगपदुभयधर्मापेक्षया चाऽवक्तव्यत्वमिति। वस्तुनः प्रतिधर्ममेते त्रयो भगा योज्याः । संयोगजाश्चत्वारोऽन्येऽपीति' -
1. (क) क्रमतो विधिनिषेधकल्पनया।
(ख) विधिकल्पनया युगपद्विधिनिषेधकल्पनया। (ग) निषेधकल्पनया, युगपद्विधिनिषेधकल्पनया। (घ) क्रमशो विधिनिषेधकल्पनया, युगद्विधिनिषेधकल्पनया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org