________________
४४
उनका क्रम जाना ही नहीं जाता।
जैसे- दूरस्थ बिजलीघर से समागत बिजली के प्रकाश का क्रम लक्षित नहीं होता, वैसे ही शीघ्र उत्पत्ति के कारण अवग्रह आदि का क्रम परिलक्षित नहीं होता । न्या. प्र. - अस्यायंभाव - यद्यपि दर्शनावग्रहादीनां क्रमो नियतः यथा पूर्वं दर्शनम् - तदनन्तरमवग्रहः ततः संशयः तत्पश्चात् ईहा, ततोऽवायः ततो धारणेति क्रमोऽनुभूयमानोऽस्ति, तथापि क्वचित् परिचितावस्थायाम् इमे अवग्रहादय इयता शैत्र्येणोपद्यन्ते उत्पलशतपत्रभेदवत् यद्वशात् तत्र जायमानोऽपि क्रमों नैवोपलक्ष्यते ।
भिक्षुन्यायकर्णिका
यथा वा विद्युद्गृहात् समागतो विद्युत्प्रकाशोऽतिशीघ्रतया जायमानत्वात् सक्रमो नैवोपयाति अनुभवपथं तथैवेमेऽवग्रहादयो ऽपि क्रमवन्तोऽपि असंलक्ष्यक्रमवन्त इव प्रतीयन्ते । अवग्रहलक्षणेऽष्टमे सूत्रे इन्द्रियेत्युक्तमिति इन्द्रियं लक्षयति
16. प्रतिनियतार्थग्रहणमिन्द्रियम् ॥
जिसके द्वारा प्रतिनियत- अपने-अपने निश्चित विषय का ग्रहण होता है, उसे इन्द्रिय कहते हैं ।
न्या. प्र. - यद्द्द्वारा प्रतिनियतस्य- स्वस्वनिश्चितविषयस्य ग्रहणं-ज्ञानं भवति तदेवेन्द्रियम् । यथा स्पर्शनेन्द्रियेण (त्वचा) स्पर्शस्य ज्ञानं भवति । न चेदं ज्ञानं केनाप्यन्येनेन्द्रियेण भवितुं शक्नोतीति स्पर्श एव स्पर्शनेन्द्रियस्य प्रतिनियतविषयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org