________________
द्वितीयो विभागः
एवमेव रसग्रहणं रसनेन्द्रियस्य विषयः। गन्धस्तु घ्राणस्य विषयः। रूपं च चक्षुषो विषयः। शब्दश्च श्रोत्रस्य विषयः। अनया रीत्या प्रत्येकमिन्द्रियस्य विषयो नियतोऽस्ति। अनेन प्रकारेण प्रतिनियतार्थप्रकाशकत्वमिन्द्रियत्वमिति इन्द्रियलक्षण मुपपन्नं भवति । इदमेव तथ्यं सूत्रद्वारा स्पष्टयति
17. स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राण
चक्षुःश्रोत्राणि। स्पर्श, रस, गन्ध, रूप और शब्द को ग्रहण करने वाली इन्द्रियां पाँच हैं-- स्पर्शन, रसन, प्राण, चक्षु और श्रोत्र । न्या. प्र.- तानि चेन्द्रियाणि अन्वर्थनामानि स्पर्शनेन्द्रियम्, रसनेन्द्रियम्, घ्राणेन्द्रियम्, चक्षुरिन्द्रियम् तथा श्रोत्रेन्द्रियमिति यथार्थनामानि सन्ति पञ्च । स्वनाम्नोऽनुसारमिमानि गृह्णन्ति विषयान्। विषयाश्चैषां स्पर्शादयः स्पष्टीकृता उपर्युक्तसूत्रे। विषयाणाम् ( अर्थानाम्) प्रकाशकत्वात् इमानि पञ्चेन्द्रियाणि ज्ञानेन्द्रियाण्यप्युच्यन्ते। एषु चक्षुरतिरिच्य चत्वारि इन्द्रियाणि वस्तु प्राप्य प्रकाशकराणि भवन्ति। चक्षुस्तु न प्राप्यकारि इन्द्रियम्। दर्शनान्तरेषु एभ्य इन्द्रियेभ्यः पृथक् वाक् पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाण्यपि सन्त्यभिमतानि। तत्र वागिन्द्रियस्य कार्यम् वचनम् । पाणे: कार्यम्-कस्यापि वस्तुनः आदानं ग्रहणम् । पादेन्द्रियस्य कार्यम्-विहरणं गमनं भ्रमणं वा सम्पद्यते । पायुनाम्ना इन्द्रियेण मलत्यागः तथा उपस्थेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org