________________
२४०
ख
ग
भिक्षुन्यायकर्णिका
अपौरुषेयत्वा भावस्य पौरुषेयत्वस्य असिद्धत्वात्
असिद्धसाध्यकोऽयं दृष्टान्ताभासः । उदाहरणान्तरं यथा - "नित्यः शब्दः अमूर्तत्वात् " अत्र शब्दे नित्यत्वं साध्यं वर्तते अमूर्तत्वञ्च हेतुः । अत्रानुमाने वैधर्म्यदृष्टान्तत्वेन उपन्यस्तो भवति परमाणुः। यथा यन्नित्यं न भवति तद् अमूर्तमपि न भवति यथा परमाणुः । अत्र वैधर्म्यदृष्टान्ते परमाणौ साध्यनित्यत्वव्यतिरेकस्य नित्यत्वाभावस्य अनित्यत्वस्य असिद्धत्वमे वास्ते, परमाणूनां नित्यत्वात् । एवं चासिद्धसाध्यकोऽयं दृष्टान्ताभासः । असिद्धसाधनः - शब्दः अपौरुषेयः अमूर्तत्वात् यत् अपौरुषेयं न भवति तत् अमूर्तमपि न भवति, यथा दुःखम् ! तात्पर्यमिदं यत् पौरुषेयं भवति तत् मूर्तं भवति, किन्तु दुःखं तु पौरुषेयमपि अमूर्तमेवास्ते । अनया रीत्याऽत्र असिद्धसाधनो व्यतिरे किदृष्टान्ताभासः ।
असिद्धोभयः यत्र साध्यं साधनञ्चेत्युभयमपि असिद्धं भवेत् तत्रासिद्धो भयक: व्यतिरेकिदृष्टान्ताभास: । यथा अपौरुषेयः : शब्द: अमूर्तत्वात् अत्र व्यतिरे - किवचनमित्थम् यत् अपौरुषेयं न भवति तत् अमूर्तमपि न भवति, यथा आकाशम् । अत्रानुमाने आकाशं दृष्टान्तत्वेन कथितं वर्तते । अस्य व्यतिरेकि
Jain Education International
-
-
For Private & Personal Use Only
www.jainelibrary.org