________________
परिशिष्ट
२४१
वाक्यस्येदं तात्पर्य यत् अपौरुषेयं न भवति अर्थात् पौरुषेयं भवति तत् मूर्तं भवति किन्तु अत्र तु वैधर्म्य दृष्टान्ते आकाशे अपौरुषेयत्वाभावो नास्तीति साध्यविकलता समायाता । आकाशस्य अपौरुषेयत्वात् तदभावस्य तत्र वक्तुमश-क्यत्वात्। एवं आकाशम् अमूर्तमेवेति तत्र अमूर्तत्वा-भावस्यापि अभाव एवेति साधनविकलता। अथवा शब्दः पौरुषेयो नास्तीति साध्यविकलता तथा मूर्तोऽपि नास्तीति साधनविकलता वक्तुं शक्यते। संदिग्ध साध्यः - यस्मिन् दृष्टान्ते साध्यं संदिग्धं स्यात् स संदिग्धसाध्यको व्यतिरेकिदृष्टान्ताभासः । यथा - विवक्षितः पुरुषविशेषः रागी वचनात् रथ्यापुरुषवत् । अत्र व्यतिरेकिवचनमित्थम् - यो रागी न भवति स वक्तापि न भवति रथ्यापुरुषवत् । अत्र परचेतोवृत्तीनां दुरधिगमत्वेन रथ्यापुरुषे रागस्य निश्चयाभावात् साध्यस्य रागस्य सन्देहो भवति । तस्मात् व्यतिरेकि.. दृष्टान्ताभासोऽयं संदिग्धसाध्यकः। संदिग्धसाधनः – यस्मिन् दृष्टान्ते साधनं संदिग्धं स्यात् स संदिग्धसाधनको व्यतिरेकि दृष्टान्ताभासः। यथा – 'अयं पुरुषः मरणधर्मा रागात् रथ्यापुरुषवत्' अत्र व्यतिरेकिवचनमित्थम् – यो मरणधर्मा न भवति स रागी अपि न भवति रथ्यापुरुषवत् । अत्रापि परचे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org