________________
२४२
भिक्षुन्यायकर्णिका
तोवृत्तेः दुर्जेयत्वात् रथ्यापुरुषे राग: संदिग्धः। तस्मात् संदिग्धसाधनक: व्यतिरेकि दृष्टान्ताभासोऽत्र बोध्यः। संदिग्धोभयः - यत्र दृष्टान्ते साध्यं साधनञ्चेत्युभयं संदिग्धं स्यात् स संदिग्धो भयको व्यतिरेकि दृष्टान्ताभासः। यथा - विवक्षितः पुरुषः अल्पज्ञः रागात् रथ्यापुरुषवत् । अत्र व्यतिरेकिवचनमित्थम् - यः अल्पज्ञो न भवति स रागी अपि न भवति रथ्यापुरुषवत्। अत्रापि परचेतोवृत्तीनां दुर्जेयत्वात् व्यतिरेकिणि दृष्टान्ताभासे रागस्य अल्पज्ञत्वस्य चेत्युभयोरसत्वं संदिग्धमिति संदिग्धोभयको व्यतिरेकिदृष्टान्ता
भासोऽत्रबोध्यः। 'छ) विपरीतव्यतिरेक:- इदमत्रबोध्यम् - अन्वयव्याप्तौ
साधनं साध्येन व्यासं भवति । व्यतिरेके तु साध्याभावः साधनाभावेन व्याप्त: स्यादित्यभीष्टम् । यथा यत्र वढ्यभावस्तत्र धूमाभावः। एवमत्र अनित्यः शब्दः कृतकत्वात् इत्यनुमानवाक्ये व्यतिरेके वक्तव्ये यत्र अनित्यत्वाभावः तत्र कृतकत्वाभावः इति कथनमेव युक्त भविष्यति किन्तु एवं न कृत्वा अत्र लिखितं यत् यदकृतकं तन्नित्यं यथा आकाशम् । अर्थात् यत्र कृ तक त्वाभावः तत्र अनित्यत्वाभाव: इति विपरीतमेवात्र कथितं वर्तत इति विपरीतव्यतिरेकिदृष्टान्ताभासोऽयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org