________________
viii
भिक्षुन्यायकर्णिका
प्रदीपः सर्वविद्यानामुपाय:सर्वकर्मणाम्। आश्रयः सर्वधर्माणां सेयमान्वीक्षिकी मता॥
प्रत्यक्षदृष्टस्य शास्त्रे श्रुतस्य च विषयस्य तात्त्विकं विवेचनं या विद्या करोति सा एव आन्वीक्षिकीति कथ्यते। इयमान्वीक्षिकी भारतीयदर्शने हेतुविद्या, हेतुशास्त्रं तर्कशास्त्रं, प्रमाणशास्त्रमिति विभिन्नैः शब्दैरभिलप्यते। प्रमाणशास्त्रं न्यायशास्त्रञ्चेत्यनर्थान्तरम् । न्यायो विचारस्य सा एव प्रणाली यत्र वस्तुतत्त्वस्य निर्धारणार्थं सर्वेषां प्रमाणानामुपयोगः कृतः स्यात्। वात्स्यायनभाष्ये तथ्यमिदमेवं प्रतिपादितम्
'प्रमाणैरर्थपरीक्षणं न्यायः'
न्यायस्य वात्स्यायनीयलक्षणे प्रमाणशब्दमपहाय आचार्यस्तुलसी भिक्षुन्यायकर्णिकायां न्यायस्य लक्षणमेवं करोति
'युक्त्यार्थपरीक्षणं न्यायः'
युक्तिश्च साध्यसाधनयोरविरोधः। युक्तमप्येतत् यदि साधनं साध्यविरोधि स्यात् तदा कथं तत् स्वसाध्यं गमयितुं शक्नुयात्। इयं हेतुविद्या, तत्त्वज्ञानं प्रस्तुत्य, तद्द्वारा निराकृत्य मिथ्याज्ञानं नानायोनिषु अन्तहीनयात्रापरायणस्य जीवात्मनो निःश्रेयसं साधयतीति मोक्षसाधिकेयं विद्येति प्रथितचरमस्ति। विषयेऽस्मिन् सर्वेषां दर्शनानामैकमत्यम् । जैनदर्शनेऽपि सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति सूत्रद्वारा मोक्षस्य चरमलक्ष्यत्वं तथा तदुपायतया सम्यग्दर्शनज्ञानचरित्राणामनिवार्यता व्यक्तीकृतास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org