________________
पुरोवाक्
ix गौतमीयन्यायशास्त्रमपि निःश्रेयसमेव मानवजीवनस्य चरमलक्ष्यं मत्वा तदुपायतया तत्त्वज्ञानस्यैव असाधारणकारणत्वं प्रतिपादयति । तदुक्तं न्यायसूत्रे
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदन्तराभावादप वर्ग: । न्या.द. १/१/२
अस्यायं भावः-तत्त्वज्ञानात् मिथ्याज्ञाननिवृत्तिः तया च रागद्वेषादिदोषाणां निवृत्तिः, दोषनिवृत्त्या च धर्माधर्मादिप्रवृत्तिनिवृत्तिः, प्रवृत्तिनिवृत्त्या च पुनर्जन्मनिवृत्तिः, पुनर्जन्मनिवृत्त्या य समस्तदुःखानामात्यन्तिकनिवृत्तिरूपा निःश्रेयसोपलब्धिरिति तत्त्वज्ञानस्य वैशिष्ट्यं व्यक्तं भवति । वेदान्तदर्शनन्तु ऋते ज्ञानान्न मुक्तिः, इत्युक्त्या मुक्तौ ज्ञानस्यैव कारणत्वं स्वीकरोति। अनया रीत्या न्यायशास्त्रमतीवोपयोगि। भारते न्यायशास्त्रं भागद्वये विभक्तमस्ति, वैदिकन्यायः, अवैदिकन्यायश्च। यो न्यायो वेदस्य प्रामाण्यं स्वीकरोति स खलु वैदिको न्यायः । यश्चं वेदस्य प्रामाण्यं न स्वीकरोति स खलु अवैदिको न्यायः। वैदिकन्यायस्य-न्यायः, वैशेषिकः, सांख्यः योगः, मीमांसा वेदान्तश्चेति षड्भेदाः सन्ति। अवैदिकन्यायस्य द्वौ भेदौ स्तः, बौद्धन्यायो जैनन्यायश्चेति। एषां संक्षिप्तपरिचयस्तु इत्थम्न्यायदर्शनम्
तत्रादौ गौतमीयन्यायः- गौतमीयन्यायस्य प्रणेता महर्षिः गौतमोऽस्ति। अस्मिन् दर्शने प्रमाणम्, प्रमेयम्, संशयः, प्रयोजनम्, दृष्टान्तः, सिद्धान्तः, अवयवः, तर्कः, निर्णयः, वादः, जल्पः, वितण्डा, हेत्वाभासः, छलम् जाति:, निग्रहस्थानञ्चेति षोडशपदार्थाः स्वीकृताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org