________________
भिक्षुन्यायकर्णिका
सन्ति। पदार्थानां ज्ञप्तिः ज्ञानं प्रमाणादेव भवतीति सिद्धान्तानुसारं अस्मिन् दर्शने प्रत्यक्षम्, अनुमानम् उपमानम्, शब्दश्च इति चत्वारि प्रमाणानि स्वीकृतानि सन्ति। दर्शनेऽस्मिन् प्रमाणस्योपरि सूक्ष्म विवेचनं कृतमस्ति। प्रमाणानामुपरि सूक्ष्मविवेचनकरणात् न्यायशास्त्रं प्रमाणशास्त्रमिति नामान्तरेणापि ख्यातमस्ति। न्यायसूत्राणामुपरि वात्स्यायनेन विशिष्टं भाष्यं लिखितम्। वैशेषिकदर्शनम् ___ अत्र द्वितीयं दर्शनमस्ति वैशेषिकदर्शनम् । अस्य प्रवर्तको महर्षिः कणादोऽस्ति । अस्मिन् दर्शने द्रव्यम्, गुणः, कर्म, सामान्यम्, विशेषः समवायस्तथा अभावश्चेति सप्त पदार्थाः स्वीकृताः सन्ति । प्रमाणञ्चात्र प्रत्यक्षमनुमानञ्चेति द्विविधमेव। न्यायवैशेषिकयोरुभयोर्दर्शनयोः सन्निकर्षस्य प्रमाणत्वं स्वीकृतं वर्तते। इन्द्रियपदार्थयोः सम्बन्ध एव सन्निकर्षः । स च सन्निकर्षः षड्विधः-संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्च । वैशेषिकसूत्राणामुपरि प्रशस्तपादेन भाष्यं लिखितमस्ति । इदमेव दर्शनं परमाणुवादस्योद्भावकमस्ति। सांख्यदर्शनम्
अस्य दर्शनस्य प्रणेता महर्षिकपिलः। अस्मिन् दर्शने प्रकृतिः पुरुषश्चेति तत्त्वद्वयं स्वीकृतम्। अत्र प्रत्यक्षम् अनुमानं शब्दश्चेति प्रमाणत्रयं स्वीकृतम्। प्रकृतेर्महदादिक्रमेण विकारमासाद्य त्रयोविंशतिविकारानासाद्य सांख्यदर्शने पञ्चविंशतितत्त्वानि स्वीकृतानि । अत्र प्रकृतिः जडात्मिका पुरुषश्च चेतनः । एतन्मतानुसारम् आध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org