________________
पुरोवाक्
xi
त्मिकम् आधिभौतिकम् आधिदैविकञ्चेति दुःखत्रयं जगति वर्तते । दुःखत्रयविघात एवात्रमुक्तिः । सा चेयं मुक्तिः विवेकख्यातिसाध्या । इदं सत्कार्यवादि दर्शनमस्ति ।
योगदर्शनम्
अस्य दर्शनस्योद्भावक : महर्षि पतञ्जलिरस्ति । अनेन योगसूत्राणि लिखितानि । योगसूत्राणामुपरि महर्षिव्यासेन भाष्यं लिखितम् । सांख्यदर्शनाभिमतपञ्चविंशतितत्त्वानि स्वीकुर्वद् योगदर्शनम् एतेभ्यस्तत्त्वेभ्यः पृथक् एकमीश्वरनामकं तत्त्वमपि स्वीकरोति । ईश्वरश्च क्लेशकर्म विपाकाशयैरपरामृष्टः पुरुषविशेषः । अनेन प्रकारेण सांख्यदर्शनं निरीश्वरसांख्यदर्शनं चेत् योगदर्शनम् सेश्वरसांख्यदर्शनमिति पदेनाप्यभिधीयते । अस्मिन् दर्शनेऽपि सांख्य दर्शनवत् त्रीण्येव प्रमाणानि स्वीकृतानि सन्ति । योगशास्त्रे चत्वारो व्यूहाः सन्ति । ते चेत्थम् - संसार:, संसारहेतु:, मोक्षो, मोक्षोपायश्च । दुःखमयः संसारो हेयः । प्रधानपुरुषयोः संयोगो दुःखमयसंसारस्य हेतुरस्ति । प्रधानपुरुषयोः संयोगस्यात्यन्तिकी निवृत्तिरेवमोक्षः तदुपायश्चास्ति प्रकृतिपुरुषयोः स्वाभाविकभेदस्य ज्ञानम् । मीमांसादर्शनम्
अस्य दर्शनस्योदभावको महर्षि जैमिनिरस्ति । महर्षिणानेन विरचितानि सूत्राणि यदुपरिशबरस्वामिनः भाष्यं वर्तते । मीमांसादर्शनस्य द्वौ भेदौ स्तः - कर्ममीमांसा, ज्ञानमीमांसा च । कर्ममीमांसा पूर्वमीमांसारूपेण तथा ज्ञानमीमांसा उत्तरमीमांसारूपेण प्रसिद्धे स्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org