________________
rii
भिक्षुन्यायकर्णिका
मीमांसादर्शने अष्टौ पदार्थाः स्वीकृताः । ते च द्रव्यम्, गुणः, कर्म, सामान्यम्, परतन्त्रता, संख्या शक्तिः सादृश्यञ्च। पदार्थानामवबोधाय कुमारिलभट्टः षड्प्रमाणानि स्वीकुरुते। तानि चप्रत्यक्षम्, अनुमानम्, उपमानम्, आगमः अर्थापत्तिः, अनुपलब्धिश्च। प्रभाकरस्तु-अनुपलब्धिमपहाय पञ्चैव प्रमाणानि मन्यते। धर्मानष्ठानेनैवाभिमतफलसिद्धिः। धर्मश्च वेदविहितकर्मजन्यः । वेदाश्च अपौरुषेयाः स्वतः प्रमाणभूताः सन्ति । वेदान्तदर्शनम्
वेदान्तो नाम उपनिषत्प्रमाणम्। महर्षिव्यासरचितानि सूत्राणि वेदान्तदर्शनस्य मूलभूतानि सन्ति। उपनिषदां तत्त्वज्ञानोपरि वेदान्त दर्शनमवलम्बितमस्ति। तस्याधारोऽस्ति ब्रह्म। ब्रह्म चाद्वैतं सत् चित् आनन्दात्मकमस्ति । वेदान्तदर्शने पञ्चवादाः प्रसिद्धाः सन्ति। आचार्यशंकरस्याद्वैतवादः । रामानुजाचार्यस्य विशिष्टाद्वैतवादः, निम्बार्काचार्यस्य द्वैताद्वैतवादः, माघ्वाचार्यस्य द्वैतवादः, तथा वल्लभाचार्यस्य शुद्धाद्वैतवादः । वेदान्तस्य साहित्यमतिविशालमस्ति । गीता उपनिषदः ब्रह्मसूत्रञ्चेति त्रयं प्रस्थानत्रयीनाम्ना वेदान्तदर्शनं ख्यापयति।
यद्यपि बहुशाखं वेदान्तदर्शनं तथापि वेदान्तशब्देन आचार्यशंकरस्याद्वैतवाद एव परां ख्यातिं गतो वर्तते। एतदनुसारं परिवर्तनशीलसंसारे यथार्थतत्त्वं ब्रह्म एव। यद्यपि जपतपोऽनुष्ठानादिक्रियाणां सम्पादनार्थं जगतो व्यवहारस्योपपत्तये जगतो व्यावहारिकसत्यत्वं दायेन प्रतिपादितं तथापि श्रवणमनननिदिध्यासनाद्युपायैः जाते तत्त्वसाक्षात्कारे जगतः पारमार्थिकरूपेणासत्यत्वमेवेति कथ्यतेऽत्र ब्रह्मसत्यं जगन्मिथ्येति न तु आपादमस्तकं प्रपञ्चपतितस्य कृते जगतो मिथ्यात्वमिति अत्रत्यः सारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org