________________
पुरोवाक्
xiii
जैनदर्शनम्
सम्प्रति अवैदिकन्यायेषु जैनन्यायः प्रस्तूयते। इदं पूर्वमुक्तं यत् जैनन्यायस्योद्गमस्थलं भगवती षटखण्डागमप्रभृतय आगमाः सन्ति। जैनन्यायस्य प्रमुखः सिद्धान्तोऽस्ति अनेकान्तवादः। अनेके अन्ता धर्मा यत्र सोऽनेकान्तः, अनन्तधर्मात्मकं वस्तु, तस्य वादः-कथनम् अनेकान्तवादः । जैनदर्शनं प्रत्येकं वस्तुनि अनेकधर्मान् स्वीकरोति । ते च धर्माः परस्परं विरोधिनोऽपि अपेक्षाबुद्ध्या एकत्र स्थातुं शक्नुवन्ति । अस्यानेकान्तवादस्य व्याख्यां स्याद्वादः करोति। अनया रीत्या अनेकान्तः सिद्धान्तः । स्याद्वादश्च अनेकान्तस्य व्याख्याता वचनप्रयोगात्मकोऽस्ति।
तत्त्वमीमांसा प्रत्येकं दर्शनस्य प्रमुखं कार्यम्। अस्मिन् संदर्भ जैनन्याये नव तत्त्वानि स्वीकृतानि । तानि चेत्थम्- .
जीवः, अजीवः, पापं, पुण्यम्, आश्रवः, संवरो, निर्जरा, बन्धो, मोक्षश्च । एषां संक्षिप्तः परिचयः
१. जीवः- चेतनालक्षणो जीवः । यत्र चैतन्यं स एव जीवः । २. अजीव:- चेतनाशून्योऽजीवः ।
पापम्- अशुभरूपे उदीयमानः कर्मपुद्गलः पापम्। पुण्यम्- शुभरूपे उदीयमानः कर्मपुद्गलः पुण्यम्। आश्रवः- कर्मपुद्गलानामाकर्षिका आत्मप्रवृत्तिः
आश्रवः। ६. संवरः - आश्रवनिरोधिका आत्मप्रवृत्तिः संवरः ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org