________________
xiy
भिक्षुन्यायकर्णिका ७. निर्जरा- तपश्चर्यया कर्मविलयेन आत्मन आंशिकी
उज्ज्वलता।
बन्धः- आत्मनि संश्लिष्टा कर्मपुद्गला एव बन्धः। ९. मोक्ष:- कर्ममुक्तस्यात्मनः स्वरूपेऽवस्थानमेव मोक्षः ।
द्रव्यम्-द्रव्यस्य विवेचनं प्रत्येकं दर्शनं करोति । तत्र न्यायदर्शने गुणक्रियाश्रयो द्रव्यमिति स्वीकृतं तत्र जैनन्याये गुणपर्यायाश्रयो द्रव्यम् इति स्वीकृतमस्ति। द्रव्यस्यात्र षड्भेदाः सन्ति धर्मास्तिकायः, अधमर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकाय:, जीवास्तिकायः, कालश्चेति।
एषु षड्द्रव्येषु कालमतिरिच्य पञ्चद्रव्याणि अस्तिकायशब्देन कथ्यन्ते। अस्तिकायशब्दे यत् अस्तिपदमस्ति तस्यार्थोऽस्ति प्रदेशः तथा कायशब्दार्थोऽस्ति समूहः । अनेन प्रकारेण यत्र प्रदेश: स्यात् अर्थात् यत् द्रव्यं सावयवं स्यात् तदेव द्रव्यम् अस्तिकायशब्देन व्यवहर्तुं शक्यते। काले अवयवा न भवन्ति । अतः कालस्य गणना अस्तिकाये न भवति। तस्मादिदं सिद्धं यत् जैनदर्शने षड्व्व्याणि तथा पञ्चास्तिकायाश्च सन्ति। प्रमाणम्
'प्रमेयसिद्धिः प्रमाणात् हि' इत्युक्त्यनुसारं प्रमेयमवबोद्धं प्रत्येकं दर्शने प्रमाणानि स्वीकृतानि । तत्र जैनन्याये प्रत्यक्षं परोक्षञ्चेति द्विविधं प्रमाणम्। तत्र प्रत्यक्षस्य द्वौ भेदौ पारमार्थिकम् सांव्यावहारिकञ्च । अनयोर्मध्ये पारमार्थिकस्य-अवधि मनःपर्याय: केवलञ्चेतित्रयो भेदा भवन्ति। तत्र चेतनस्य सर्वथावरणविलये स्वरूपाविर्भावः केवलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org