________________
XV
पुरोवाक् प्रत्यक्षम्। आवरणविलयस्य तारतम्ये न्यूनाधिकभावे अवधिज्ञानं, मन:पर्यायज्ञानं च भवति।
सांव्यावहारिकप्रत्यक्षम् इन्द्रियमनो निमित्तंभवति। अस्यअवग्रह: ईहा, अवाय: धारणाचेति चत्वारो भेदाः भवन्ति । अविशदः परोक्षप्रमाणं भवति। अस्य मतिज्ञानं श्रुतज्ञानं चेति द्वौ भेदौ। मतिज्ञानस्यस्मृति: प्रत्यभिज्ञानम्, अनुमानम्, आगमश्चेति चत्वारो भेदा भवन्ति । तत्र इन्द्रियमनोनिमित्तं ज्ञानं मतिज्ञानम्। शब्दसंकेतादिसहयोगेन जायमानं मतिज्ञानमेवश्रुतज्ञानं भवति। अस्मिन् दर्शने ज्ञानमेव प्रमाणमिति स्वीकृतिः।
अनुमानमपि एकं विशिष्टं परोक्षप्रमाणम्। साधनात् साध्य ज्ञानमेवानुमानम्। साधनं लिङ्गं हेतुरिति पर्यायवाचिनः शब्दाः सन्ति। इदञ्चानुमानं सद्धेतुना भवति। अत्र हेतोः सद्हेतुता, पक्षसत्वम्, सपक्षसत्वम्, विपक्षासत्वम्, अबाधितत्त्वम्, असत्प्रतिपक्षत्वम् इति एभिः पञ्चरूपैर्न गृह्यते, किन्तु हेतोः साध्याविनाभावित्वमेव तस्य सद्हेतुताज्ञापकमस्ति। __ हेत्वाभास :- कश्चन हेतुरेतादृशो भवति य:खलु अहेतुरपि हेतुवदाभासते। अयम् असद्हेतुरेव हेत्वाभासः । न्यायदर्शने यत्र पञ्चहेत्वाभासाः स्वीकृतास्तत्र जैनन्याये असिद्धविरूद्धानैकान्तिक रूपेण त्रय एव हेत्वाभासा अभिमताः । बौद्धन्यायः
बौद्ध सम्प्रदायस्य प्रवर्तको महात्मा बुद्धोऽस्ति । अस्मिन् सम्प्रदाये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org