________________
भिक्षुन्यायकर्णिका
सन्ति चत्वारः सम्प्रदायाः । ते च वैभाषिकः, सौत्रान्तिकः, योगाचारो माध्यामिकश्च । अस्मिन् न्याये प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयम् ।
xvi
वस्तुनो लक्षणमस्ति अत्र - अर्थक्रियाकारित्वम् । तच्च स्थिरपदार्थे न तिष्ठति किन्तु क्षणिकपदार्थे एव तिष्ठति । तस्मात् यत् सत् तत् क्षणिकम् । अनेन प्रकारेण क्षणिकवादो बौद्धदर्शनस्य प्रमुखो भाग: सिध्यति । आर्यसत्यानि - अत्र मते चत्वारि आर्यसत्यानि स्वीकृतानि । तानि च दुःखम्, दुःख समुदयः, दुःखनिरोधः, दुःखनिरोधमार्गश्च । भवचक्रमेव दुःखकारणम् । दुःखनिवारणार्थ मष्टाङ्ग योगस्य सेवनमावश्यकं मतम् । स च अष्टांगयोगः - सम्यक् दृष्टिः, सम्यक् संकल्पः, सम्यक् वाक्, सम्यक् कर्मान्तः, सम्यक् आजीवः, सम्यक् व्यायामः, सम्यक् स्मृतिः, सम्यक् समाधिः । एषां योगाङ्गानां सेवनेन समुदेति यथार्थप्रज्ञा । तया एव भवचक्रस्य विनाशः । तत एव मोक्षः । मोक्षमार्गोपरि आरोढुं चतस्रः भावनाः सन्ति उपास्याः । ताश्चेत्थम्
१. सर्वं दुःखमयम् २. सर्वं क्षणिकम् ३. सर्वं स्वलक्षणम् ४. सर्वं शून्यम् । आसां भावनानामभ्यासेन सांसारिकी आसक्तिः क्षीयते । तत एव मनुष्यो मोक्षमार्गस्य पथिको भूत्वा स्वकीयं चरमलक्ष्यमधिगन्तुं यतमानो भवतीति संक्षेपः । विशेषतश्च तत्तद्साम्प्रदायिकग्रन्थेभ्यो ज्ञातव्यम् ।
प्रस्तुतपुस्तकविषये किमपि
प्रस्तुतपुस्तकम् आचार्यतुलसीमहाभागेन विरचितम्। आचार्य-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org