________________
पुरोवाक्
xvii
तुलसी दर्शनशास्त्रस्य तलावगाही विद्वानवर्तत। दर्शनशास्त्रं हि आत्मानात्मविवेचकम् अपवर्गमार्गप्रदर्शकं निखिलतत्त्वप्रकाशकममूल्यरत्नोपमं महदुपयोगीत्यवधार्य जैनन्याये सारल्येन प्रवृत्तिकामनया पुस्तकमिदं व्यलेखि सूत्रशैल्यामाचार्यवरेण । सूत्राणि भवन्ति अल्पाक्षराण्यपि गभीरभावभरितानि इत्याकलय्य सूत्राणां स्वोपज्ञवृत्तिरपि लिखिता तेन महाभागेन । वृत्त्या सह हिन्द्यां सूत्रार्थोऽपि कृतोऽत्र ।
सप्तसु विभागेषु विभक्तेऽस्मिन् पुस्तके न्यायशास्त्रीयनिखिलतत्त्वानि निबद्धानि सन्ति। प्रमाणं प्रमेयः प्रमाता प्रमितिश्चेति चत्वारि न्यायशास्त्रीयाङ्गानि वैशद्येन सन्त्यत्र व्याख्यातानि। कार्यकारणविभागस्तेषां लक्षणानि, लक्षणदोषः, प्रमाणस्य भेदप्रभेदादयो विषया अत्र सम्यक्तया स्फुटीकृताः सन्ति ।
प्रमाणमध्येऽनुमानस्यैकं विशिष्टं स्थानम्। तच्चाविनाभाविना लिंगेन लिङ्गिनो ज्ञानस्वरूपम्। तत्र हेतुरूपोपर्यपि गरीयान् विचारो दृश्यतेऽत्र। पुस्तकस्य परिशिष्टभागस्य गांभीर्यमपि हेतुमवलम्ब्यैव ।
जैनदर्शनम् अनेकान्तवादि दर्शनम्। प्रत्येक वस्तुनि अनेके धर्माः स्वीक्रियन्तेऽत्र । अनेकान्तः सिद्धान्तः, स्याद्वादश्चानेकान्तस्यव्याख्याता। स स्याद्वादः नयो निक्षेपश्चेति त्रयः खलु इमे केवलं जैनदर्शने एव स्वीकृताः सन्ति। किमर्थमिमे स्वीकृताः? अस्य प्रश्नस्योत्तरमिदमेव बोध्यं यत् जैनदर्शनस्य हार्द बोद्धमेषामावश्यकता अस्ति। दर्शनमिदनेकान्तवादिदर्शनमस्ति। अस्य व्याख्या स्याद् वादनयनिक्षेपान् विना सम्यक्तया भवितुं नाह तीति एषां स्वीकरणमावश्यकम।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org