________________
भिक्षुन्यायकर्णिका
न्या. प्र.- यः स्वमात्मानमवभासयति-प्रकाशयति परञ्च-स्वस्मात् भिन्नं जडतत्त्वञ्च प्रकाशयति अर्थात् यः स्वयं प्रकाशते तथा स्वस्माद् भिन्नं जडतत्त्वं च प्रकाशयति, स एव प्रमाता। एवञ्च स्वयं प्रकाशमानत्वे सति परप्रकाशकत्वं प्रमातुर्लक्षणम्।
अयं प्रमाता प्रत्यक्षादिप्रमाणैः प्रसिद्धोऽस्ति। अहम् अस्मि, अहं सुखी-दु:खी वास्मि इत्येवं रूपेण यो बोधो भवति स बोधो नापलपितुं शक्यते केनापि । अहं नास्मीति बोधो कस्यापि न जायते। अयं बोध एव सत्यापयति इदं तथ्यं यत् अस्ति आत्मा नाम्ना ख्यातः प्रमाता। अयमेव प्रमिमीते- प्रमितिविषयं करोति निखिलपदार्थान् इति परावभासीति पदेनापि अयमुच्यते। अहं सुखी-दुःखी इत्यादिनिदर्शनमेव प्रमातु: सिद्धौ प्रत्यक्ष प्रमाणम् । प्रत्यक्षादिरित्यादौ आदि शब्देन अनुमानस्य शब्दात्मकस्य आगमादेश्च ग्रहणं कर्त्तव्यम्। अनुमानं-तावदित्थं- जडं चेतनाधिष्ठितं शय्यासनादिवत् । यथा अचेतनं शय्यादिकं चेतनमन्तरा न भवितुमर्हति उपयोगि तथैवेदं शरीरमपि जडात्मकं चेतनमन्तरा अर्थहीनं सत् चेतनस्य प्रमातुः सत्तामनुमापयति। अनयैव रीत्या आगमादीन्यपि प्रमाणयन्ति प्रमातारमिति भवति प्रमाता प्रमाणेन प्रमाणितः। भारतीयचिन्तनपरम्परायां मुख्यो विषयः आत्मा एवास्ति। अस्मिन् विषये परस्परं विरोधीनि अनेकमतानि उपलभ्यन्तेऽत्र। औपनिषदपथे वर्तमाना आत्मनः सर्वथा नित्यत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org