________________
सप्तमो विभागः
१८१
कूटस्थत्वम्, अचलत्वं सनातनत्वञ्च बुवन्ति। किन्तु मीमांसाकधुरीणाः कुमारिलभट्टा आत्मनो नित्यानित्यत्वं व्याहरन्ति। जैनदर्शनमपि आत्मनो नित्यानित्यत्वमेव स्वीकरोति। ये हि बौद्धमतावलम्बिन आत्मनः सर्वथा क्षणिकत्वमनित्यत्वञ्चाङ्गीकुर्वन्ति तेषां मते तु कृतप्रणाशस्तथा अकृताभ्यागमदोषश्च भवति एव। अनेकान्तदर्शनानुसारं तु ज्ञानम् आत्मा च स्वपरावभासी एव स्वीकृतः। तदुक्तं हेमचन्द्रेण- ‘स्वपरावभासी परिणाम्यात्मा प्रमाता।' तात्पर्यन्तु पूर्ववदेव -यः स्वं परञ्च अवभासते-प्रकाशयति तथा सुखी दुःखीत्यादिविभिन्नरूपे परिणमति स एव प्रमाता आत्मा। यदि प्रमाता कूटस्थो नित्यःस्यात् तदा हर्षविषादसुखदुःखभोगादयो विकारास्तत्र न जायेरन् आकाशवत्। यदि प्रमाता एकान्तनाशी (सर्वथा अनित्यः) स्यात् तदा कृतनाशाकृताभ्यागमौ स्याताम्। अस्यां स्थितौ स्मृतिप्रत्यभिज्ञानादयो व्यवहारा अपि न सम्पद्येरन् । यदि आत्मा परिणमनशीलः स्यात् तदा तत्रोत्पादव्ययध्रौव्याणि सारल्येन सम्पद्यन्त इति सर्वं सुगमं भवति। आचार्यहेमचन्द्रेणात्र अहे: दृष्टान्तो दत्तः। यथा सर्पस्य कदाचित् कुण्डलावस्था भवति, कदाचिच्च आर्जवावस्था भवति। उभयोरनयोरवस्थयो: सर्पत्वमनुवर्तत एव। एवमेव आत्मनोऽपिकदाचित् सुखदुःखादिलक्षणा अवस्था जायन्ते कदाचिच्च विनिवर्तन्तेऽपि। आसु सर्वास्वस्थासु चैतन्यं तु अनुवर्तत एव। अतएव प्रमातुः परिणमनशीलता या कथिता सा समीचीनैव। एतत् सर्वं मनसि निधाय सूत्रं करोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org