________________
प्रथम विभागः
१५
न्या. प्र.-यत्र वस्तुन आभासमात्रं भवेत् तत्र अनध्यवसायः। यथा यत् किञ्चिदेतत् किमेतत् इति ज्ञानं वा अनध्यवसाय एव। अत्र वस्तुनोऽग्रहणमेव भवति नतु ग्रहणम्। यद्यपि दूरता, अन्धकारः प्रमादश्चेति हेतवः संशये विपर्यये च समानरूपेण भवन्ति, तथापि मिथ्याज्ञानात्मके विपर्यये शुक्तौ रजतज्ञाने एकांशे रजतांशे वैपरीत्यं भवति, किन्तु संशये गौरयं गवयो वेत्यत्र उभयांशेऽपि अनिर्णय एव भवति। एवमनध्यवसायेऽपि आभासमात्रत्वात् न कीदृशोऽपि निर्णय इति विपर्यतः उभयोः भेदो ज्ञातव्यः। अनध्यवसाये वस्तुनोऽन्यथा ग्रहणं न भवति तस्मात् नायं विपर्ययः तथा वस्तुनो विशेषस्पर्शाभावान्नायं संशयोऽपि। संशये तु शुक्तौ रजतत्वस्पर्शस्तु भवत्येवेति एषां पार्थक्यं बोध्यम्। बौद्धसिद्धान्ते प्रथमक्षणभावि निर्विकल्पकं प्रत्यक्षप्रमाणत्वेनाभिमतं तथापि विशेषोल्लेखस्त्वत्र नैवभवति, तस्मादिदमनध्यवसाय एवेति। अर्थसिद्धौ ज्ञप्तौ प्रमाणस्य कारणत्वं पूर्वमुक्तम् । तच्च प्रमाणं ज्ञानरूपमेव। तस्य प्रमाणस्य यथार्थता अयथार्थता वा कथं ज्ञातुं शक्यते इति शंकां मनसि निधाय सूत्रमवतारयति -
15. प्रामाण्यनिश्चयः स्वतः परतो वा।।
अभ्यासदशादौ प्रामाण्यनिश्चयः स्वतो भवति। अनभ्यासदशादौ प्रमाणान्तरात्-संवादकाद्, बाधकाभावाद् वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org