________________
१४
भिक्षुन्यायकर्णिका यत्र वस्तुनः उभयरूपं प्रमाणप्रतिपन्नं भवति तत्रोभयकोटिकः संस्पर्शस्तु भवत्येव। न च तत्र संशयः। किन्तु तत्र संशय लक्षणमतिव्याप्तं न भवेदिति सूत्रे अनुभयत्रग्रहणं कृतं वर्तते। उभयस्वभावात्मके वस्तुनि नैव घटते संशयलक्षणम्। यथा अस्ति नास्ति च घटः। अत्रैकस्मिन्नेव घटे अस्तित्वं नास्तित्वञ्चापेक्षया वर्तत एवेति न संशयावकाशः। न्यायदर्शनेतु एतद्भावाभिव्यञ्जकं संशयलक्षणमेवमस्तिएकस्मिन् धर्मिणि विरुद्धनानाधर्मावगाहि ज्ञानं संशयः। एकस्मिन् धर्मिणि वस्तुनि स्थाणौ दूरादन्धकारवशात् तविरुद्धपुरुषत्वप्रकारकमपि ज्ञानं जायते। तत्र स्थाणुत्वप्रकारकबुद्धौ, पुरुषत्वप्रकारकबुद्धौ च एका कोटिः सत्या अपरा च असत्या तिष्ठति। न च तत्र निर्णय इति साधकबाधक प्रमाणाभावात् संशय एवात्र। इदानीमनध्यवसायं लक्षयन् सूत्रयति
14. आभासमात्रमनध्यवसायः।
अत्र वस्तुनोऽग्रहणमेवाऽयथार्थत्वम् । वस्तु का आभास मात्र होना अनध्यवसाय है।
यहाँ वस्तु के अग्रहण को ही अयथार्थ कहा गया है। 1. नान्यथा ग्रहणमिति नासौ विपर्ययः । नात्र विशेषस्पर्शोऽपीतिसंशयादप्यसौ
भिन्नः। 2. किंसज्ञकोऽयं विहङ्गमः, कोऽयं स्पर्शः, इत्यादिषु यदालोचनामात्रमेव ज्ञानं
जायते न तु निर्णयात्मकमिति न यथावस्तु अस्ति तथा तद्ग्रहणम् भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org