________________
प्रथम विभागः
अनित्य इन दो विकल्पों में निर्णायकता होने के कारण यह संशय नहीं है।) न्या. प्र. - अनिर्णायी विकल्पः संशयः निर्णयशून्यो विकल्पः संशयः कथ्यते । दूरात् दृष्टिपथमवतरति पशुविशेषे अयं गौः गवयो वेति अनिश्चयात्मकं ज्ञानमुत्पद्यते। अत्र ज्ञानस्य पर्यवसानं संशय एव तिष्ठति। न च तत्र निर्णयः । यः विकल्पो निर्णयात्मको भवति स तु प्रमाणमेव। यथा पदार्थो नित्यश्च अनित्यश्चेति । एतद्दर्शनानुसारं प्रत्येकं वस्तु विरोधिधर्माणाम् अविरोधि अधिकरणं भवतीति शक्यते वक्तुंपदार्थो नित्यश्च अनित्यश्चेति । अत्र एकस्मिन्नेव पदार्थे नित्यत्वमनित्यत्वञ्च अपेक्षाबुद्ध्या तिष्ठत्येव । वस्तुनः स्वरूपं द्रव्यपर्यायात्मकं भवति । तत्र द्रव्यापेक्षया वस्तु नित्यं भवति, पर्यायापेक्षया च वस्तु अनित्यं भवतीति युक्तमेव एकस्मिन्नेव वस्तुनि नित्यत्वंचानित्यत्वञ्चेति। अत्र नास्ति अनिर्णयात्मकतेति नात्र संशयावकाशः। इदमेव तथ्यं शब्दान्तरेण प्रत्यपादि हेमचन्द्रः। यथोक्तम् अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः अनुभयस्वभावे अर्थात् एकस्वभावके वस्तुनि यदा उभय कोटिकं ज्ञानं जायते, तदा तत्र एककोटे: साधकं तथा अपर कोटे: बाधकं किमपि प्रमाणं न भवतीति निर्णयाभावात् संशयात्मकमेव ज्ञानं तत् । अन्धकारे दूरात् ऊर्ध्वाकारं वस्तु यदा दृश्यते तदा तत्र जायते प्रत्ययः स्थाणुर्वा पुरुषो वा। न च निर्णय इति संशयात्मकमेवेदं ज्ञानम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org