________________
१७४
भिक्षुन्यायकर्णिका स चार्थबोधो द्विविधः साक्षात्-आनन्तर्येण, पारम्पर्येण च । अयमर्थबोधः प्रमाणस्य साक्षात् फलम्। सर्वप्रमाणानाम् अव्यवहितं फलं साक्षात्फलं वा अर्थबोध एवेति ज्ञेयम्। परम्परया फलदृष्ट्या तु केवलज्ञानस्य फलं माध्यस्थ्यम्। इदं माध्यस्थ्यमेव औदासीन्यपदेनाप्युच्यते। औदासीन्यम् उपेक्षैवेति ज्ञेयम् । शेषप्रमाणानां फलं हानबुद्धिः उपादानबुद्धिः माध्यस्थ्यबुद्धिश्च भवति। इमा बुद्धयोऽर्थज्ञानानन्तरमेव भवन्तीति पारम्पर्येणोच्यन्ते सर्वाः खल्विमाः। केवलज्ञानिनः समस्तपदार्थानां भवति साक्षात् बोधः किन्तु बोधविषयाणामपि तेषां हानस्य उपादानस्य चेच्छा न भवति तस्मात् केवलज्ञानस्य फलं माध्यस्थ्यबुद्धिरेव। हेयपदार्थे परित्यागबुद्धिः, उपादेयपदार्थे ग्रहणबुद्धिः उपेक्षणीयपदार्थे च माध्यस्थ्यबुद्धिरिति भवति क्रमः। प्रमाणात् जायमानं फलं प्रमाणात् भिन्नमभिन्नं वेति संशये फलं प्रमाणतो भिन्नाभिन्नमिति व्यवस्थापयितुं सूत्रमारभते
13.
तत् प्रमाणतः स्याद् भिन्नमभिन्नञ्च। एकान्तभेदे हि इदमस्य प्रमाणस्य फलमिति सम्बन्धो न संभवी। एकान्ताभेदे च प्रमाणमेव वा फलमेव वा तद् भवेदिति। प्रमाण-फल प्रमाण से कथंचिद् भिन्न और कथंचिद् अभिन्न है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org