SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४६ भिक्षुन्यायकर्णिका न तद् वर्तमानकालिकम्, यच्च वर्तमानकालिकं न तद् भूतकालिकं भविष्यद्कालिकं वा । एवं रीत्या कालभेदेन भिन्नार्थकः शब्दः शब्दनयेन गृह्यते । सख्याभेदेन शब्दभेदादर्थभेदस्य ग्राहको यथा- 'एक: पुरुष: ' अत्र एकत्वसंख्याविशिष्टस्य पुरुषस्य बोधः । एके पुरुषाः । इत्यत्र समादृतस्य अनेकपुरुषस्य बोधो भवति यश्च गृह्यते शब्दनयेन । लिङ्गभेदेन शब्दभेदादर्थभेदस्योदाहरणं यथा - नदः नदी इति। अत्र नदः इति कथनेन तादृशो जलप्रवाहो भासते यत्र पुंस्त्वप्रतीतिर्भवति । नदी इति कथनेन स्त्रीत्वविशिष्टो जलप्रवाहो गृह्यते । अत्र लिङ्गवशाद् शब्दस्य अर्थो भिन्नतां गतो वर्तते । तथापि प्रवाहरूपोऽर्थस्तु तथैव अस्ति-यथा पुलिंगे तथा स्त्रीलिङ्गेऽपि । सम्प्रति समभिरूढनयं प्रस्तौति सूत्रद्वारा 12. पर्याये निरुक्तिभेदेनार्थभेदकृत् समभिरूढ़ः । यथा-भिक्षते इत्येवंशीलो भिक्षुः, वाचं यच्छतीति वाचंयमः, तपस्यतीति तपस्वी । शब्दनयो हि निरुक्तिभेदेऽप्यर्थाभेदमभिप्रैतीत्ययं ततो भिन्नः । पर्यायवाची शब्दों में निरुक्त के भेद से अर्थभेद का स्वीकार करने वाले नय को समभिरूढ़ नय कहा जाता है । जैसे - भिक्षाशील भिक्षु, वाणी का संयम करने वाला वाचंयम और तपस्या करने वाला तपस्वी कहलाता है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy