________________
पञ्चमो विभागः
१४७
शब्द नय निरुक्त का भेद होने पर भी अर्थ का अभेद स्वीकार करता है । समभिरूढ़ नय निरुक्त भेद से अर्थभेद को स्वीकार करता है। इसलिए समभिरूढनय शब्द नय से भिन्न है ।
न्या. प्र. पर्यायवाचकशब्देषु भिक्षु तपस्वी इन्द्रादिशब्देषु निरुक्तिभेदेन = निर्वचनभेदेन अर्थभेदम् भिन्नमर्थं कुर्वन् अभ्युपगच्छन् वा समभिरूढ़ो नयः ।
--
अस्यायं भाव भिक्षुशब्दो भिक्षणाद् भिक्षुनामके व्यक्तिविशेषे प्रयुज्यते । तत्रैव तपश्चरणात् - तपस्वीति शब्दोऽपि प्रयुज्यते । एवमेव इन्दनात् ऐश्वर्यशालित्वात् यः पुरुषः इन्द्र इत्युच्यते स एव पुरोदारणात् पुरन्दर इति कथ्यते । अनया रीत्या व्युत्पत्तिबलेन भिक्षुतपस्विप्रभृतयः शब्दाः प्रतिपर्यायबोधकत्वात् भिन्नभिन्नार्थबाचका भवन्ति ।
शब्दनयस्तु निर्वचनभेदेऽपि व्युत्पत्तिभेदेऽपि अर्थभेदे अभेदं स्वीकरोति । एवञ्च व्युत्पत्तिभेदेन अर्थभेदेऽपि अभेद स्वीकारक : शब्दनयः । व्युत्पत्तिभेदेन अर्थभेदं स्वीकरोति समभिरूढनय इति तयोर्भेदः
अधुना एवंभूतनयस्य स्वरूपं प्रस्तौति -
13. क्रियापरिणतमर्थं तच्छब्दवाच्यं स्वीकुर्वन्नेवंभूतः । यथा - भिक्षणक्रियापरिणतो भिक्षुः, वाचंनियच्छन् वाचंयमः, तपस्यन् तपस्वीत्यादि ।
समभिरूढ़ : शब्दगतक्रियायामपरिणतेऽपि तद्व्यपदेशमिच्छतीत्ययं ततो भिन्नः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org