________________
९६
भिक्षुन्यायकर्णिका न्या. प्र.- कार्यस्योत्पत्तेः पूर्वं कारणे कार्यस्याभावो भवति । अयमभावः प्रागभावः कथ्यते। पटनिर्माणात् पूर्वं तन्तुषु पटस्य प्रागभावो भवति । प्रागभावोऽनादिः भवति। कदा प्रभृति तन्तुषु पटाभावो वर्तते इति वक्तुं न कोऽपि प्रभवति । तस्मादनादिरेवायमभाव इति बोध्यम्। अनादिरप्ययमभाव: सान्तः अन्तेन सह वर्तते इति सान्तोऽप्यस्ति । यदा पटो निर्मितो भवति तदा पटप्रागभावः स्वयमेव समाप्तिं गच्छति। अत: अनादित्वे सति सान्तत्वं प्रागभावस्य लक्षणं साधु । एवमेव दनः उत्पत्तेः पूर्वं पयसि (दुग्धे) दनः प्रागभावस्तिष्ठति यदा दधि निर्मितं भवति तदा प्रागभावस्तस्य स्वयमेव समाप्तो भवतीति लक्षणसमन्वयः स्पष्ट एवास्ते। . सम्प्रति प्रध्वंसं लक्षयन् सूत्रयतिलब्धात्मलाभस्य विनाशः प्रध्वंसः । अयं साद्यनन्तः, यथा-तक्रे दनः । लब्धात्मलाभ (उत्पन्न कार्य) के विनाश का नाम प्रध्वंसाभाव
31
है।
___ यह सादि और अनन्त होता है, जैसे- छाछ में दही का अभाव है।
न्या. प्र.- लब्धात्मलाभस्य, लब्ध आत्मलाभो येनासौ लब्धात्मलाभ: तस्य अर्थात् समुत्पन्नकार्यस्य यो विनाश: स एव प्रध्वंसः। अयं प्रध्वंसाभावः सादिर्भवति यस्मिन् काले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org