________________
तृतीयो विभागः
प्रतिज्ञावाक्येन पक्षे साध्यसम्बन्धो बोधितो भवति। द्वितीयेन हेतुवाक्येन हेतौ साध्यस्य ज्ञापकता अस्तीति बोध्यते । तृतीयेनोदाहरणवाक्येन हेतौ साध्यस्य व्याप्तिरस्तीति बोधो जायते। चतुर्थेन उपनयवाक्येन हेतोः पक्षधर्मता पक्षवृत्तित्वं विदितं भवति। ततः पञ्चमेन निगमनवाक्येन पक्षे साध्यस्य वृत्तित्वमस्तीति बोधितं भवतीति परार्थानुमानं परप्रतिपत्त्यर्थं सम्पद्यते। प्रसङ्गप्राप्तम् प्रतिषेधं निरूपयन् तद्भेदान् निरूपयति
29. प्रतिषेधश्चतुर्धा प्राक् प्रध्वंस इतरेतरोऽत्यन्तश्च ।
प्रतिषेध के चार प्रकार हैं- 1. प्राक्, 2. प्रध्वंस, 3. इतरेतर, 4. अत्यन्त न्या. प्र.-प्रतिषेधः = अभावः स चतुर्विधः- प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः अत्यन्ताभावश्च। तत्र प्रागभावं प्रस्तौति
30. उत्पत्तेः पूर्वं कारणे कार्यस्याऽसत्त्वं प्राक्।
अयमनादिसान्तः यथा- पयसि दनः। उत्पत्ति से पूर्व कारण में कार्य असत् होता है, उसका नाम प्राक् अभाव है। यह अनादि और सान्त होता है, जैसेदूध में दही का न होना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org