________________
११६
भिक्षुन्यायकर्णिका बोधः कदापि। अनेन प्रकारेणेदं वक्तुं शक्यते यत् शब्देऽर्थ बोधिका शक्तिः सहजा वर्तते। सा एव शक्तिः संकेतद्वारा यदा गृहीता भवति तदा तम् शब्दं श्रुत्वा तदर्थबोधो जायते। इदानीमिदं विचार्यते यत् शब्दादर्थबोधो जायत इत्यत्र न कश्चन विसंवाद:, किन्तु शब्दादवगतोऽर्थः कदाचित् यथार्थत्वं भजते कदाचिच्चायथार्थत्वम् । तच्च कथमिति शंकामपाकर्तुं सूत्रयति
6.
अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत्, यथार्थत्वम - यथार्थत्वञ्च वक्तृगुणदोषानुसारि॥ शब्द में प्रदीप की तरह अर्थ प्रकाशकत्व स्वाभाविक है, पर उसकी यथार्थता और अयथार्थता वक्ता के गुण और दोष के अनुसार है। न्या. प्र.- प्रदीपोऽर्थान् प्रकाशयति । इदं तस्य स्वाभाविकं कार्यम् अस्ति, तथैव अर्थप्रकाशकत्वं-बोधकत्वं शब्दस्यापि स्वाभाविकं कार्यमस्ति, किन्तु अर्थे या यथार्थता अयथार्थता वा आयाति सा तु वक्तु : गुणदोषाभ्यामेव जायते। वक्तरि गुणश्चेत् अर्थस्य यथार्थता, दोषे सति अयथार्थता भवतीति बोध्यम्। वक्तरि गुणप्रतीतिस्तस्य सम्यग्दर्शित्वेन सत्यवकृत्वादिगुणेन च शक्यते ज्ञातुम् । यदा वक्ता एवं गुणगणालंकृतो न भवति तदासावयथार्थज्ञानमेवोत्पादयिष्यतीति न संशयः। सम्प्रति जैनदर्शनस्य मुख्यं तत्वम् अनेकान्तवादं स्याद्वादं च व्याख्यातुकामः सूत्रमवतारयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org