________________
चतुर्थो विभागः
बोधयितुं प्रस्तौति कोश: नानाशब्दान्। ते च शब्दाः पर्याय वाचिनो भवन्ति । तैश्च पर्यायवाचकैः शब्दैरेक एवार्थोऽवबुध्यत इति कोशद्वारा संकेतग्रहस्येयं परम्परा प्रथितिं गताऽस्ति। आप्तवाक्यादपि गृह्यते शब्दस्य संकेतः। आप्तस्तु स एव भवति यो यथार्थविद् यथार्थवादी च भवेत् । रागादिवशादपि नान्यथा वादी यः स एवाप्तः। एतादृशादासपुरुषात् कृते संकेतग्रहे न कश्चन विसंवादः। व्यवहारस्तु शक्तिग्राहकेषु प्रमुखं स्थानं बिभर्ति । व्यवहारशब्देनात्र गृह्यते वृद्धव्यवहारः। वृद्धव्यवहारेणैव बालकस्य शक्तिग्रहो भवति । यदा उत्तमवृद्धः अर्थात् ज्येष्ठ पुरुषः कनिष्ठं पुरुषं प्रति कथयति घटमानयेति, तदा तेनानीते घटे पार्श्वस्थो बालो निश्चिनोति घटकर्मकमानयनं घटमानयेति वाक्यस्यार्थः। पश्चात् घट स्थापय पटमानय इत्युक्ते सति आगते पटे बालस्य घटपदस्य घटे तथा पटपदस्य पटे शक्तिग्रहो भवति । एवं वृद्धव्यवहारतो बालस्य भवति शक्तिग्रहः। एवं वाक्यशेषात् 'यदान्या'ओषधयो म्लायन्ते अथैते मोदमानास्तिष्ठन्तीति वाक्यशेषात् यव शब्दस्य दीर्घशूके संकेतग्रहो भवति। एवं तत् समानार्थकपदेन तदर्थकथने विवरणात् घटपदस्य कलशे शक्तिग्रहः। एवं येन पुरुषेण तत्तद्शब्दानां तत्तदर्थेषु संकेतो गृहीतः स पुरुषो गृहीतसंकेतके तस्मिन् शब्दे श्रुतिपथमुपगते सति अवगच्छति तं संकेतितमर्थम्। यश्च पुरुषोऽगृहीतसंकेत: अथवा संकेतं गृहीत्वापि विस्मृतसंकेतोऽस्ति तस्य नैव जायते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org