________________
११४
भिक्षुन्यायकर्णिका निहिता वर्तते । किन्तु यं कञ्चित् शब्दं श्रुत्वा यस्य कस्याप्यर्थस्य बोधो नैव जायते । यदि स्यादेवं तदा बहूपप्लव: स्यादिति कस्यार्थस्य बोधिका शक्तिः कस्मिन् शब्दे निहिता इति निर्णेतव्यं पूर्वम् । अयं निर्णय एव शक्तिग्रहपदेनाप्युच्यते। शब्दे या अर्थबोधिका शक्तिस्तिष्ठति तस्या निर्णायकाः सन्ति इमेशक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यात् व्यवहारतश्च । वाक्यस्य शेषात् विवृते वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।
न्यायसिद्धान्तमुक्तावली धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद् भवति। कस्य धातोः कस्मिन् अर्थे शक्तिः, कस्य प्रत्ययस्य च क: अर्थः? अस्यां जिज्ञासायां धातूनां प्रत्ययानाञ्च शक्तिग्रहं व्याकरणं कारयति । यथा भू.इति सत्तायाम् गम्लुगतौ इत्यनेन प्रकारेण धातूनां तथा अण् इञ् छादीनां तद्धितीयप्रत्ययानाम् कः खलुः अर्थः, एवमेव कृत्य क्त-अणादिकृत्प्रत्ययानाञ्चार्थाः व्याकरणेनैव ज्ञातुं शक्यन्ते। अनेन प्रकारेण सुतिङादि-प्रत्ययानामर्थान् बोधयति व्याकरणम् । शक्तिग्राहकेषु उपमानमपि अन्यतमं निमित्तमस्ति। उपमानं सादृश्यम्। सादृश्यद्वाराऽपि गृह्यते शब्दस्य संकेतः। यथागोसदृशो गवयः इत्युक्ते सति गवयमजानतः पुरुषस्य गोसदृशे पशुविशेषे गवयपदस्य शक्तिग्रहोभवति । ततः समायाते दृष्टिपथे तस्मिन् पशौ अयमेव गवयशब्दवाच्य इति जायते तस्य बोधः। शक्तिग्राहकेषु कोशोऽपि बिभर्ति महत्त्वपूर्ण स्थानम्। एकमर्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org