________________
२२४
भिक्षुन्यायकर्णिका
विरुद्धम् आगम-विरुद्धं च साध्यं साधयितुं पक्षवृत्तित्वेनोपात्तः स्यात्स एव कालात्ययापदिष्टः। यथा- अग्निः अनुष्णः कृतकत्वात् घटवत्। अत्र अग्नेरनुष्णत्वं प्रत्यक्षबाधि-तमिति तं साधयितुं प्रयुक्तः कृतकत्वं हेतुः बाधित एव। प्रकरणसमः – यो हेतुः पक्षे प्रतिपक्षे च तुल्य: स्यात् स प्रकरणसमः। यथा अनित्यः शब्दः नित्यधर्मानुपलब्धेः घटवत्, इत्युक्ते परः प्रतिवादी कथयति शब्दो नित्यः अनित्यधर्मानुपलब्धेः आकाशवत् । अत्र परस्परस्य साध्याभावस्य साधकं हेत्वन्तरमुपस्थितं भवतीति किमपि साध्यं साधयितुं न शक्यते। इमौ हेत्वाभासौ न्यायदर्शने स्वीकृतौ स्तः। जैनन्याये तु अनयोः स्वीकृति स्ति। आचार्यों हेमचन्द्रः कालात्ययापदिष्टं पक्षदोषेष्वेवान्तर्भावयति। पक्षाभासास्त्रयः। ते च प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणात्मकाः। अयं च बाधित: कालात्ययापदिष्टः हेत्वाभासो लोकनिराकृतसाध्यधर्मविशेषणेऽन्तर्भावयितुमुपयोज्यत एव । यथा अग्निः अनुष्णः द्रव्यत्वात् अत्राग्नेरनुष्णत्वं लोकप्रतीत्यैव निराकृतमिति न पृथक गणनीयोऽयं हेत्वाभासः। प्रकरणसमः सत्प्रतिपक्षस्तु संभवत्येवनेति व्याजहार हेमचन्द्रः। शब्दोऽनित्यः, पक्षसपक्षयोरन्यतरत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org