________________
परिशिष्ट
२२५
इत्युक्ते वादिनि प्रतिवादी कथयति शब्दो नित्यः पक्षसपक्षयोरन्यतरत्वात् । एवं विधमसम्बद्धं कोऽपि अनुन्मत्तो नाभिदधाति कथमपीति विमृश्य त्रय एव हेत्वाभासाः स्वीकृता अत्र दर्शने। असिद्धहेत्वाभासं लक्षयता भिक्षुन्यायकर्णिकायां लिखितं यद् अप्रतीयमानस्वरूपोऽसिद्धः। अज्ञानात् सन्देहात् विपर्ययाद् वा यस्य हेतोः स्वरूपं न प्रतीयते सोऽसिद्धः । यथा न्यायदर्शने असिद्धस्य त्रयोभेदाः सन्ति तथैव भिक्षुन्यायकर्णिकायामपि असिद्धस्य त्रयो भेदाः सन्ति वर्णितास्तथापि उभयत्रास्ति महद् वैषम्यम् । न्यायदर्शने यत्र आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्चेति सन्ति नामानि त्रयाणामसिद्धानां
तत्रैव भिक्षुन्यायकर्णिकायामेव-मुपलभ्यन्ते नामानिवादि असिद्धः प्रतिवादिअसिद्धः उ भयासिद्धश्च । एषामुदाहरणान्ति इत्थम् -
.
अय
अयं त्रिविधो भवति, यथा - (क) वादि-असिद्धः-परिणामी आत्मा, उत्पादादिमत्त्वात्।
अयं वादिनो नैयायिकस्याऽसिद्धः ।
तन्मत आत्मनः कूटस्थत्वस्याभिमतत्वात्। (ख) प्रतिवादि-असिद्धः-चेतनास्तरवः सर्वत्वगपहरणे
मरणात्। अत्र मरणं विज्ञानेन्द्रियायुर्निरोधलक्षणं प्रतिवादिनो बौद्धस्याऽसिद्धम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org