________________
परिशिष्ट
अत्र रूपत्वादिति हेतुः उद्भूतरूपादिचतुष्टयस्यैकभागे रूपमात्रे एव तिष्ठति न तु रसादिषु त्रिष्वपि । अतः पक्षैकदेशवृत्तितया अयं भागासिद्धो वर्तते । विशेषणासिद्धः वायुः प्रत्यक्ष: रूपवत्वे सति स्पर्शवत्वात् । अत्र पक्षे वायौ हेतो: विशेषणं रूपवत्वमसिद्धमिति विशेषणासिद्धो ऽत्र ।
विशेष्यासिद्ध:वायुः प्रत्यक्षः स्पर्शवत्वे सति रूपवत्वात् । अत्र वायौ रूपवत्वं सिद्धं नास्ति । वायो:रूपरहितत्वात् ।
इयञ्च भेदगणना तर्कसंग्रहस्य पदकृत्यव्याख्यातो गृहीत्वोल्लिखिता ।
व्याप्यत्वासिद्ध :- सोपाधिको हेतुर्व्याप्यत्वासिद्धः । उपाधिना सह वर्तमानो हेतुः सोपाधिको हेतुः कथ्यते । अयमेवहेतुः व्याप्यत्वासिद्धपदेनाप्युच्यते । उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापकत्वम् । तात्पर्यमिदं यत् साध्यस्याधिकरणे यस्याभावः न भवेत् अर्थात् साध्यसमानाधिकरणस्य अत्यन्ताभावस्य यः:... प्रतियोगी न भवेत् स एव साध्यव्यापकः । एवं साधनाधिकरणवृत्त्यत्यन्ताभावस्य प्रतियोगी भवेच्चेत् साधनाव्यापकत्वं तत्र वक्तुं युज्यत एव । एवञ्च साध्यव्यापकत्वे सति साधनाव्यापकत्वरूपोपाधिना सह वर्तमानो हेतुरेव सोपाधिको हेतु: । अयमेव व्याप्यात्वासिद्धरूपो हेत्वाभासः ।
Jain Education International
--
२२१
For Private & Personal Use Only
www.jainelibrary.org