________________
२२०
भिक्षुन्यायकर्णिका
आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्च । एतदन्यतमत्वमसिद्धत्वम् । प्रमाणनयतत्त्वालोककारस्तु यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः इत्यवोचत् । सद् हेतुः साध्यं विना अनुपपन्नो भवति। वहि विना धूमस्यानुपत्तिरस्ति अत: धूमोऽस्ति सद् हेतुः। किन्तु असिद्ध हेतोरन्यथानुपपत्तिः केनापि प्रमाणेन न प्रतीयत इति इदमेवकारणं तस्यासिद्धत्वस्य। न्यायदर्शनानुसारमयमसिद्धस्त्रिविध:-- आश्रयासिद्धः; स्वरूपासिद्धः, व्याप्यत्वासिद्धश्च। तत्र तावत् - आश्रयासिद्धः - गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र सौरभस्य आश्रयः गगनारविन्दम् कथितम् किन्तु स तु भवत्येव नेति आश्रयासिद्धोऽयं हेत्वाभासः। स्वरूपासिद्धः- पक्षे हेत्वभावः स्वरूपासिद्धः। शब्दो गुणः चाक्षुषत्वात् । अत्र शब्दे चाक्षुषत्वं नास्ति शब्दस्तु श्रावणः। तस्मादत्र स्वरूपासिद्धः स्पष्ट एव। अयं स्वरूपासिद्धः चतुर्विधो भवति, तद्यथाशुद्धासिद्धः; भागासिद्धः, विशेषणासिद्धः, विशेष्यासिद्धश्च । तत्र शुद्धासिद्धस्तु उपरि उक्त एव शब्दो गुणः चाक्षुषत्वादित्यत्र । भागासिद्धस्तु - पक्षैकदेशावृत्तिरूपो भवति अर्थात् पक्षस्यैकदेशे गच्छति एकदेशे च न गच्छति । यथा - उद्भूतरूपादिचतुष्टयं गुणः रूपत्वात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org