________________
परिशिष्ट
2.
3.
4
२१९
दृष्टान्त: । तस्मात् दृष्टान्ताभावात् अनुपसंहारी अयं हेत्वाभासः ।
विरुद्धः- साध्याभावव्याप्सो हेतुर्विरुद्धः ।
यो हेतुः साध्याभावस्य व्याप्यः स्यात् स एव विरुद्धः । हेतुना साध्यस्य व्याप्येन भवितव्यम् । यदि हेतु: साध्यस्य व्याप्यो न भवति किन्तु साध्याभावस्य व्याप्यो भवति स तु विरुद्ध एवेति सार्थकं तन्नाम । यथा शब्दो नित्यः कृतकत्वात् । अत्र कृतकत्वं, साध्यं नित्यत्वं तदभावोऽनित्यत्वं तेन व्याप्तमस्ति । यत्र कृतकत्वं तत्रानित्यत्वमिति नियमात् । तस्मादत्र वाक्ये कृतकत्वहेतु: साध्यविरुद्धत्वात् विरुद्धहेत्वाभासस्वरूप एव ।
सत्प्रतिपक्ष : : --- साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्ष: । यस्य हेतोः साध्याभावस्य साधकं हेत्वन्तरमुपस्थितं भवति स हेतु: प्रतिपक्षेण विरोधिना हेतुना सह वर्तत इति सत्प्रतिपक्षपदेनोच्यतेऽसौ । यथा शब्दों नित्यः श्रावणत्वात् शब्दत्ववत् इति प्रयुक्तेऽनुमानवाक्ये एतद्विरोधिवाक्यमुपतिष्ठते शब्दोऽनित्यः कार्यत्वात् घटवत्। अत्र परस्परं विरोधिनौ द्वौ हेतू स्तः । अतोऽत्र सत्प्रतिपक्षहेत्वाभासो वर्तते ।
-
असिद्धः- आश्रयासिद्धान्यतमत्वमसिद्धत्वम् । असिद्धस्त्रिविध:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org