________________
२१८
भिक्षुन्यायकर्णिका
(क) साधारणानैकान्तिकः - साध्याभाववद्वृत्तिर्भवति । अर्थात् साध्याभावाधिकरणे यो हेतुस्तिष्ठति स साधारणानैकान्तिकः । यथा- पर्वतो वह्निमान् प्रमेयत्वात् ।
इदमत्र बोध्यं यत् साध्यं व्यापकमर्थात् अधिकदेशवृत्ति भवति । हेतुश्च साधक: अल्पदेशवृत्तिः भवति । यदि हेतुः साध्याभावाधिकरणे तिष्ठेत् तदा व्यापकस्य साध्यस्य व्यापकत्वमेव भज्येत। " पर्वतो वह्निमान् प्रमेयत्वात्” अत्र प्रमेयत्वं हेतुः वह्नेरभावस्थले सर्वत्रैव वर्तत इति साध्याभावाधिकरणवृत्तित्वात् हेतुरयं साधरणानैकान्तिकः । (ख) असाधारणानैकान्तिकः – सर्वसपक्षविपक्षव्यावृत्तिः पक्षमात्रवृत्ति: असाधारणः । यो हेतुः निश्चितसाध्यवति सपक्षे तथा निश्चितसाध्याभाववति विपक्षे न तिष्ठेत् किन्तु केवलं पक्षमात्रवृत्तिरेव भवेत् स हेतुः असाधारणोऽनैकान्तिकः । यथा शब्दो नित्यः शब्दत्वात् । अत्र शब्दत्वादिति हेतुः सर्वेभ्यो नित्येभ्यः अनित्येभ्यश्च व्यावृत्त: पक्षशब्दमात्र वृत्तिरस्तीति असाधारणोऽनैकान्तिकोऽयम् ।
-
―――――
(ग) अनुपसंहारी - यत्र हेतौ अन्वयव्यतिरेकदृष्टान्तौ न संभवत: स हेतुः अनुपसंहारी भवति । यथा— सर्वम् अनित्यं प्रमेयत्वात् । अत्र सर्व एव पक्षश्चेत् कुत्र दीयेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org