________________
२२२
भिक्षुन्यायकर्णिका
5.
अस्योदाहरणमेवं बोध्यम् - पर्वतो धूमवान् वह्निमत्वात् अत्र आद्रेन्धनसंयोग एवोपाधिः। अयमार्टेन्धनसंयोगो हि साध्यस्य धूमस्य व्यापकोऽस्ति, यत्र यत्र धूमस्तत्र तत्राद्र्धनसंयोगः, इति आद्र्धनसंयोगे साध्यव्यापकत्वं सिद्धयति। एवमेव साधनस्य वह्नः अव्यापकमपि तदस्ति, अयोगोलके वढेः सत्वेऽपि तत्र आर्दैन्धनसंयोगो नास्त्येव । अनया रीत्या आर्टेन्धन संयोगरूपोपाधिना युक्तो वर्तते उपर्युक्तानुमानघटको हेतुरिति सोपाधिकोऽयं हेतु: हेत्वाभासपदेन वर्णयितुं शक्यत एव। बाधित: - यस्य साध्याभावः प्रमाणन्तरेण निश्चितः स बाधितः। यस्य हेतोः साध्याभावः प्रमाणन्तरेण प्रत्यक्षादिप्रमाणेन निश्चितः स बाधितः। बाधित साध्यकत्वात् अत्रत्यो हेतुः बाधित इत्युच्यते। यथा - वह्निः अनुष्णः द्रव्यत्वात् । अत्र अनुष्णत्वं साध्यमस्ति, तस्य अभावः उष्णत्वम्, स्पार्शनप्रत्यक्षेण गृह्यते । एवञ्चात्र प्रमाणान्तरेण स्पर्शेन प्रस्तुतसाध्यस्य अनुष्णत्वस्य बाधो निश्चित इति बाधितोऽयं हेत्वाभासः। विरुद्धहेत्वाभासे हेतुः साध्यस्य व्याप्यो न भवति, किन्तु साध्याभावस्य व्याप्योभवति। बाधिते तु साध्याभाव एव प्रमाणान्तरेण निश्चित इति तयोर्भेदः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org