________________
तृतीयो विभागः
८५
येन इन्द्रियेण या व्यक्तिगृह्यते तन्निष्ठा जातिस्तदभावश्च तेनैवेन्द्रियेणेति नियमात् रूपत्वादीनां चाक्षुषत्वे न कोऽपि संशयः। न्यायदर्शने तु असिद्धस्य त्रयो भेदाः स्वीकृताः सन्ति। १. आश्रयासिद्धो यत्र हेतोराश्रय एवासिद्धः। यथा
गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः, स च नास्त्येव। स्वरूपासिद्ध:- शब्दोऽनित्यः चाक्षुषत्वात् घटवत् । अत्र चाक्षुषत्वं हेतुः स च शब्दे नास्तीति स्वरूपासिद्धोऽयम्। व्याप्यत्वासिद्धश्च- व्याप्तिग्राहकप्रमाणाभावात् भवति । यथा शब्दः क्षणिक: सत्वात् अत्र सत्वक्षणिकत्वयोः
व्याप्तिग्राहकं प्रमाणं नास्ति। विरुद्धनामानं हेत्वाभासं साम्प्रतं लक्षयतिसाध्यविपरीतव्याप्तो विरुद्धः। विवक्षितसाध्याद् विपरीते एव व्याप्तो हेतुः विरुद्धः, यथानित्य:शब्दः, कार्यत्वात्। साध्य से विपरीत पक्ष में व्याप्त हेतु विरुद्ध हेत्वाभास कहलाता है।
विवक्षित साध्य से विपरीत पक्ष में ही व्याप्त हेतु विरुद्ध हेत्वाभास होता है, जैसे- शब्द नित्य है, क्योंकि वह कृतक है।
18.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org