________________
८४
भिक्षुन्यायकर्णिका
सम्प्रति हेत्वाभासानां लक्षणानि प्रस्तोतुकामः सूत्रमवतारयति
17. अप्रतीयमानस्वरूपोऽसिद्धः।
यस्य हेतोरज्ञानात्, सन्देहाद्, विपर्ययाद् वा स्वरूपं न प्रतीयते स असिद्धः', यथा-अनित्यः शब्दः, चाक्षुषत्वात् । -- जिस हेतु का स्वरूप प्रतीत नहीं होता, उसे असिद्ध हेत्वाभाव कहा जाता है।
अज्ञान, संदेह या विपर्यय के कारण जिस हेतु के स्वरूप की प्रतीति नहीं होती, वह असिद्ध हेत्वाभास होता है, जैसे- शब्द अनित्य है, क्योंकि वह चाक्षुष है।। न्या.प्र.- प्रतीयते ज्ञायते इति प्रतीयमानम् । तद्भिन्नमप्रतीयमानं स्वरूपं यस्य स अप्रतीयमानस्वरूपो हेतुरसिद्ध इति कथ्यते। कथं तदीयं स्वरूपमप्रतीयमानमिति जिज्ञासायामुच्यते- अज्ञानात्, सन्देहात्, विपर्ययज्ञानाद् वा हेतोः स्वरूपं न प्रतीयते । वस्तुतस्तु यस्मिन् हेतौ व्याप्ति: पक्षवृत्तित्वं वा निश्चितं न भवति स एवासिद्धः। प्रस्तुते उदाहरणे चाक्षुषत्वरूपस्य हेतोः पक्षे शब्दे वृत्तित्वं नैवास्ते इति हेतुरयमसिद्ध इति वेदनीयम्। किं वा न हि चाक्षुषत्वम् अनित्यत्वस्याविनाभावी हेतु:, रूपत्वमनुष्यत्वादीनां चाक्षुषत्वेऽपि तत्र अनित्यत्वस्य वक्तु मशक्यत्वमेव।
1. देखें परिशिष्ट 1/3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org