________________
८३
तृतीयो विभागः
साध्यं साधयितुम्, अन्वय व्यतिरेकयोर्मध्येऽन्यतरस्यैव प्रयोगः कर्तव्य इति अत्रत्यं तात्पर्यम्। हेतुं निरूप्य सम्प्रति हेत्वाभासान् निरूपयितुमुपक्रमते
16. असिद्ध-विरुद्ध-अनैकान्तिकास्तदाभासा:'।
असिद्ध, विरुद्ध और अनैकान्तिक ये तीन हेत्वाभास हैं। न्या. प्र.- तदाभासाः हेत्वाभासाः । हेत्वाभासशब्दस्यार्थद्वयं भवति अहेतुत्वेऽपि ये हेतुवत् आभासन्ते प्रतीयन्ते ते हेत्वाभासाः। अथवा- हेतोराभासा:-दोषाः हेत्वाभासाः। दुष्टहेतवो दोषयुक्ता वा हेतवो हेत्वाभासपदेनोच्यन्ते। ते च हेत्वाभासा असिद्धविरुद्धानैकान्तिका: इति त्रय एव सन्ति। न्यायदर्शने तु बाधितः सत्प्रतिपक्षश्चेत्यपरावपि द्वौ हेत्वाभासौ स्वीकृतौ स्तः। आचार्यो हेमचन्द्रस्तु त्रयाणां हेत्वाभासानां कथनं संख्यान्तर व्यवच्छेदाय मनुते । स खलु बाधित नामकं हेत्वाभासं पक्षदोषेषु अन्तर्भावयति। अग्निरनुष्णः द्रव्यत्वात् घटवत् । इत्यत्र अग्नावनुष्णत्वं प्रत्यक्षागमाभ्यां बाधितमिति पक्ष दोष एवायम्। सत्प्रतिपक्षस्यापरं नाम वर्तते प्रकरणसमः। एतद् विषये हेमचन्द्रस्येदमभिमतं यत् अविनाभाविना हेतुना सिषाधयिषितस्थले नास्ति संभवोऽनुमानान्तरस्य। तस्मात्रय एव
हेत्वाभासा इति निश्चितम्। 1. देखें परिशिष्ट 1/2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org