________________
८२
भिक्षुन्यायकर्णिका अर्थ है व्यतिरेक, जैसे- यह पर्वत अग्निमान् है, क्योंकि यहाँ धूम की उपपत्ति है। (यह अन्वयहेतु है) यह पर्वत अग्निमान है, क्योंकि अग्नि के बिना धूम की अनुपपत्ति है। (यह व्यतिरेकहेतु है) अन्वयी और व्यतिरेकी दोनों हेतुओं से एक ही तात्पर्य निकलता है, इसलिए एक समय में एक ही हेतु का प्रयोग किया जाता है। न्या. प्र.- हेतोः प्रयोगः, तथोपपत्त्या अन्यथानुपपत्त्या च भवति । तथोपपत्तिः अन्वयः अन्यथानुपपत्तिश्च व्यतिरेकः। तत्सत्वे तत्सत्वम् अन्वयः तदभावे तदभावो व्यतिरेकः । अग्निसत्वे एव धूमसत्वम् इत्येवं साध्यसद्भावप्रकारेण हेतो रुपत्तिस्तथोपपत्तिः । व्यतिरेकस्तु एवं भवति अग्निमानयं पर्वतः अन्यथा-अग्न्यभावे धूमानुपपत्तेः । अग्न्यभावे धूमोभवत्येवनेति साध्याभावप्रकारेण हेतोरनुपपत्तिः अन्यथानुपपत्तिः। साध्याभावे साधनाभाव इति व्यतिरेकस्तु स्पष्ट एव। अनयोरन्वयव्यतिरेकयोस्तात्पर्यन्तु एकमेवास्ते। अग्निसत्वे एव धूमो भवति। अग्न्यभावे च न भवति धूमः। क्वचिल्लोहपिण्डादौ सत्यपि अग्नौ नावतिष्ठते धूम इति अल्पदेशवृत्तितया धूमस्य व्याप्यत्वम् । अग्नेश्च व्यापकत्वं निर्विवादम् । अतएव व्याप्येन धूमेन व्यापकोऽग्निरनुमीयत एव । अनयोरन्वयव्यतिरेकयोरेकमेव तात्पर्यम्। अन्वयेन व्यतिरेकेण च यो हेतुः साध्यस्याविनाभावी भवति। स एव स्वसाध्यं साधयितुं क्षमो भवति । यथा धूमः। अस्याञ्च स्थितौ एकस्मिन् समये एकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org