________________
१०६
भिक्षुन्यायकर्णिका
न्या. प्र.
कारणं द्विविधमुक्तं प्राक् । तयोर्व्यापारानन्तरं यदुत्पद्यते निष्पद्यते वा तदेव कार्यमिति कथ्यते । उत्पत्तेः पूर्वं कार्यं नासीदिति पूर्वं तदीय: प्रागभावो भवति । कारणव्यापारात् जायते कार्यमिति कार्यं प्रागभावप्रतियोगीति पदेनाप्युच्यते । तच्च कार्यं द्विविधम्। एकं सकर्तृकम् अपरम् अकर्तृकम् । यत् कार्यं केनापि कर्त्रा क्रियते तत् कार्यं सकर्तृकम् । यथा-गृहम्, घटः इत्यादि सकर्तृकं कार्यम् । कर्त्ता एव निर्माति घटम्, गृहम् वा । कर्त्तारमन्तरा घटादीनां निर्माणं नैव शक्यते कर्त्तुमिति एतादृशानां कर्मणां सकर्तृकत्वं स्पष्टमेव । एवमेव बीजवपनद्वारा ये वृक्षादयः समुत्पाद्यन्ते तेऽपि सकर्तृकमेव कार्यम् ।
www.comm
किञ्चित् कार्यम् अकर्तृकमपि भवति । यथा अनुप्ततृणादयो न केनापि कर्त्रा उत्पाद्यन्ते, किन्तु कस्यापि प्रयासमन्तरा स्वयमेव जायन्ते ते इति तेषामकर्तृकत्वं को नाम अपवारयितुं शक्नुयात् ।
एवमेव जलदा मेघाः खनिजपदार्था भूम्यादयोऽपि अकर्तृका एवेति बोध्यम् ।
केचित्तु कर्त्तारं विना कस्यापि कार्यस्य निष्पत्तिरसंभवेति मन्वानाः कर्तुः द्वैविध्यमेव स्वीकुर्वन्ति । स च कर्त्ता शरीरी अशरीरीतिभेदभिन्नो द्विविधः । गृहघटादीनां कर्त्ता सशरीरी, जलदपटलादीनां कर्त्ता अशरीरी इति तेषामाकूतम् ।
इति मतिस्वरूपनिर्णयात्मकस्तृतीयो विभागः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org