________________
तृतीयो विभागः
१०५
अपरमसमवायिकारणं तद् भवति यत् कार्यस्य समवायि कारणे स्थितं भवति । यथा पटसमवायिकारणे तन्तौ स्थितः तन्तुसंयोगः परस्यासमवायिकारणम् । घटसमवायिकारणे कपालद्वये स्थितः कपालद्वयसंयोगो घटस्यासमवायिकारणम् । एतेन इदमपि स्पष्टं भवति यत् समवायिकारणं द्रव्यमेव भवति चेत् असमवायिकारणं गुण एव भवति । गुणाश्रय एव द्रव्यम् । तस्मिन् द्रव्ये समवायेन वर्तमानो गुणः कार्यस्य असमवायिकारणं भवतीति साधु निरूपणमस्य ।
आभ्यां समवाय्यसमवायिकारणाभ्यां भिन्नं कार्योत्पत्तौ साक्षात् यत् साहाय्यं विधत्ते तत् कार्यं प्रति निमित्तकारणं भवति । इदन्तु उक्तमेवपूर्वम् ।
कारणं प्रस्तुत्येदानीं कार्यं प्रस्तौति
39. तद्व्यापारानन्तरं भावि कार्यम् ॥
उपादान और निमित्त इन दोनों कारणों की प्रवृत्ति के अनन्तर जो निष्पन्न होता है, उसे कार्य कहते हैं ।
40. सकर्तृकाऽकर्तृकम् ।
सकर्तृकम् - गृहकलशोप्ततर्वादि । अकर्तृकञ्च - अनुप्ततृणाम्बुदखनिजभूम्यादि । कार्य दो प्रकार का होता है- सकर्तृक और अकर्तृक । सकर्तृक- मकान, घड़ा, उप्त - तरु आदि ।
अकर्तृक- अनुप्त-तृण, बादल, खनिज, भूमि आदि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org