________________
१०४
भिक्षुन्यायकर्णिका कार्यस्योत्पत्तौ निर्वर्तकःकर्ता तु निश्चितरूपेण अपेक्षितो न भवति । यथा अनुप्ततृणादौ नापेक्ष्यते कर्ता। तानि तु कर्तारमनपेक्ष्य स्वयमेव जायन्ते। यत्र च घटादौ कुलाल: कर्ता अपेक्ष्यते, तद्वत् यत्र कर्तुरपेक्षा भवति तत्र कर्ता निमित्तकारणान्तर्गत एव मन्यते। अनया रीत्या निमित्तमुपादानञ्चेति कारणस्य द्वैविध्यमेवेति बोध्यम् । निमित्तकारणस्य पर्यायोऽस्ति सहकारिकारणमिति।। न्याय दर्शने तु कारणं त्रिविधं स्वीकृतमस्ति - समवायि कारणम्, असमवायिकारणं, निमित्तकारणम् च। तत्र समवायिकारणस्य स्वरूपमेवमुक्तुम्यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम्। तात्पर्यमिदं यत् यस्मिन् अधिकरणे समवायसम्बन्धेन सम्बद्धं सत् कार्यमुत्पद्यते तत् तस्य कार्यस्य समवायिकारणम् । यथा तन्तुषु पट: उत्पद्यते । तत्र तन्तवः अवयवाः सन्ति, पटश्च अवयवी अस्ति। अवयवावयविनोः समवाय एव सम्बन्धः। स च नित्यः सम्बन्धः। कार्य कारणञ्च एकस्मिन्नेवाधिकरणे तिष्ठतः। यथा प्रस्तुतोदाहरणे तन्तवः कारणं, पटश्च कार्यम्। ते च तन्तवः तन्तुषु तादात्म्यसंबन्धेन तिष्ठन्ति । तेष्वेव तन्तुषु पटोऽपि वर्तते समवायसम्बन्धेनेति कार्यकारणयोरेकाधिकरणवृत्तित्वं स्पष्टमेव। इदमपि बोध्यं यत्-समवायिकारणं द्रव्यमेव भवति- यथा तन्तवो द्रव्यात्मका एव समवायिकारणं भवन्ति । एवं कपालद्वये समुत्पद्यते घट इति कपालद्वयं घटस्य समवायिकारणम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org