SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विभागः 13. तस्यावस्थितिर्धारणा॥ वासना, संस्कार इत्यस्याः पर्यायः । इयमेव स्मृतेः परिणामिकारणम्॥ निर्णयात्मक ज्ञान की अवस्थिति का नाम धारणा है। वासना और संस्कार ये धारणा के पर्यायवाची शब्द हैं। धारणा ही आगे जाकर स्मृति के रूप में परिणत होती है। न्या. प्र.- तस्य निर्णयात्मकज्ञानस्य या अवस्थितिर्दृढ़ता भवति सा एव धारणा कथ्यते। अवाय एव दृढतमावस्थापन्नो धारणोति स्पष्टम् । वासना संस्कारश्च धारणायाः पर्यायौ स्तः। इयं धारणैव स्मृते: कारणं भवति। इयं तदीया कारणता परिणामिकारणता रूपा वर्तते अर्थात् धारणैव स्मृतिरूपे परिणमते। वस्तुतस्तु यद्ज्ञानं दृढतरं भवति तदीयविषया एव सत्यवसरे स्मर्यन्ते न तु विस्मृतविषयकज्ञानस्य विषयाः कदापि स्मृतिपथारूढ़ा भवन्ति । न्यायदर्शने तु इयं धारणैव संस्कारपदेनाभिधीयते । अत एव तत्रोक्तम्-संस्कारमात्रजन्यं ज्ञानं स्मृतिः। ___ इदमत्र बोध्यम्- इन्द्रियविषयसम्प्रयोगानन्तरं प्रथमम् अस्तिकिञ्चिदेतत् इत्याकारकं विकल्परहितं निराकारं ज्ञानमुत्पद्यते। तत् दर्शनमित्यभिधीयते। तादृशदर्शनानन्तरं शब्दत्वाद्यवान्तरसामान्याकारविशिष्टम् 'अयम् शब्दः' इत्याकारकं यद् ज्ञानम् उत्पद्यते सोऽवग्रहइत्युच्यते। तदनन्तरम् अयं शाङ्खः शब्दः, शा? वा शब्द इति संशयः समुत्पद्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy