________________
y
भिक्षुन्यायकर्णिका ततः शब्दस्य माधुर्यमनुभूय अनेन शङ्खशब्देनभाव्यमिति ईहा जायते। ईहानन्तरं माधुर्येण सहान्वयव्यतिरेकात् शाङ्कः एवायं शब्द इत्यवायो जायते। स एवावायो दृढीभावमापद्य धारणापदेन व्यवह्रियते। ज्ञानस्य सूक्ष्मविवेचनमिदमत्रैवोपलभ्यते।
न्यायदर्शने तु अवग्रहतः समारभ्य धारणापर्यन्तं ज्ञानस्य चतसृणां स्थितीनां कृते निर्विकल्पकं सविकल्पकञ्चेति स्थितिद्वयमेवपरिकल्पितं वर्तते। तत्र निष्प्रकारकं ज्ञानमर्थात् प्रकारताविशेष्यताशून्यं किञ्चिदेतत् अस्तीति ज्ञानं निर्विकल्पकपदेन उच्यते । वस्तुनो यथार्थावबोधे सति घटोऽयमित्येवं रूपेण विशेष्यताविशेषणताशालि यद् ज्ञानं जायते तत्तु घटत्वादिना विकल्पेन सहितत्वात् सविकल्पकपदेन अभिलप्यते। अवग्रहेहयोर्मध्ये संशय इव नात्र संशयोऽभिमत इति पार्थक्यमत्र बोध्यम्। इदानीम् अवग्रहादीनां पारस्परिकं भेदमवबोधयितुकाम: सूत्रमवतारयति
14. असामस्त्येनापि उत्पद्यमानत्वात्, अपूर्वापूर्ववस्तुपर्याय
प्रकाशकत्वात् क्रमभावित्वात् च एते व्यतिरिच्यन्ते। अवग्रह आदि चारों असमस्तरूप से भी उत्पन्न होते हैं, नए-नए पर्यायों का बोध कराते हैं और क्रम से उत्पन्न होते हैं- इन तीन कारणों से उनमें परस्पर भिन्नता है। न्या. प्र.- एते अवग्रहादयः परस्परं व्यतिरिच्यन्ते परस्परं पृथक्त्वेन वर्तन्ते । तत्र हे तु माह- असामस्त्ये नापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org