________________
द्वितीयो विभागः
३७
न्या. प्र.- अवग्रहस्य द्वौ भेदौ भवतः व्यञ्जनावग्रहोऽर्थावग्रहश्च। इदमत्रावधेयं यत् इन्द्रियार्थयोः संबन्ध: अभिव्यक्तिहेतुर्भवति। अत एवासौ व्यञ्जनमित्युच्यते। शब्दादयोऽर्था येऽभिव्यक्ता भवन्ति तेऽपि व्यञ्जनपदेनाभिधीयन्ते । तथा चायं सूत्रार्थव्यञ्जनेन- इन्द्रियार्थसंबन्धरूपेण व्यञ्जनस्य शब्दादेरर्थस्य यद् ग्रहणम्-अव्यक्तः परिच्छेदः अव्यक्तज्ञानं भवति तदुच्यते व्यञ्जनावग्रहः। तदनन्तरं किञ्चिद् व्यक्तं व्यञ्जनावग्रहापेक्षयेतिभावः जायते एकं ज्ञानं यत्र जाते: द्रव्यस्य गुणस्य वा कल्पना न भवति तादृशज्ञानेन यदर्थग्रहणं तदेव अर्थावग्रहः। यथा एतत् किञ्चिद् अस्तीति। अस्य तात्पर्यमिदं यत् व्यञ्जनावग्रहे यद् वस्तु सर्वथा अव्यक्तं भवति तदेव वस्तु अर्थावग्रहे किञ्चिद् व्यक्तं भवति । किन्तु वस्तुनो जाते: द्रव्यस्य गुणस्य वा कल्पना नैव भवति। न्यायदर्शने एतदेव ज्ञानं निष्प्रकारकं ज्ञानमित्युच्यते। अस्मिन् न कश्चन प्रकार:विशेषणं न वा कश्चन विशेष्य इति प्रकारताविशेषताशून्यमिद्रं ज्ञानं निर्विकल्पकज्ञानमित्युच्यते।
अवग्रहेण वस्तुनो निर्णयो न भवति अत: अनिर्णायि इदं ज्ञानमिति वक्तुं शक्यते, तथापि अनिर्णायित्वेऽपि ज्ञानमिदं निर्णयोन्मुखमस्त्येव ईहा अवायधरणाद्वारेणेति अस्य प्रामाण्यं सुस्थिरमेव। अनध्यवसायस्तु-न निर्णायी न वा निर्णयोन्मुख इति तस्य प्रामाण्यं नैवेति विज्ञेयम्। इदानी व्यञ्जनावग्रहरहितस्थलं दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org