SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५४ भिक्षुन्यायकर्णिका जैनपरम्परायां मनः मध्यमपरिमाणमस्ति। द्रव्यमनो भावमनश्चेति तस्य द्वौ भेदौ। तत्र द्रव्यं मनः सूक्ष्मतमेन मनोवर्गणानामकेन जडद्रव्येण समुत्पन्न प्रतिक्षणं शरीरवत् परिवर्तनशीलं भवति। भावमनश्च ज्ञानशक्तिसम्पन्नं किं वा ज्ञानरूपमत एव चेतनद्रव्यजन्यमित्यभिमतम्। मनसः कार्यं सुखदुःखेच्छाद्वेषादीनामनुभूतिरेवास्ति। सुखदुःखादयोगुणा आत्मगता अन्तः करणगता वेत्यन्यदेतत् । बहिरिन्द्रियजन्यज्ञानोत्पत्तौ मनो निमित्तं भवति । यथोक्तं प्राक्पूर्वम् आत्ममनः संयोगः ततो मनसः इन्द्रियेण संयोगः मनः संयुक्तेन्द्रियस्यार्थेन (विषयेण) सह संयोगस्ततस्तदीयं ज्ञानमिति। इति प्रत्यक्षस्वरूपनिर्णयात्मको द्वितीयो विभागः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy